पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृक्दृश्यसम्बन्धभङ्गः गगनादौ तदभावात्, कलधौतमलादेरपि तज्ज्ञानविषयत्वप्रस- ङ्गाच्च । नाप्यभिज्ञाभिलपने तयोईयावृत्तित्वात् । नच विषय विषयिभावेन ते तत्र स्त इति वाच्यम्; तस्यैव विचार्यमाणत्वात् । अत एव न द्वितीयोऽपि । न तृतीयः; ईश्वरज्ञानस्यातीतादि- ज्ञानस्य च कर्मकारकाजन्यत्वेन निर्विषयत्वप्रसङ्गात् । न चतुर्थः; ज्ञानतदाकारयोरभेदेन सर्वेषां ज्ञानंहेतूनां विषयत्वापातात्, अनुमित्यादिविषये तदभावा (पाता)च्च | न पञ्चमः; दृश्यमान- त्वस्य विषयत्वघटितत्वेनात्माश्रयात् । न पष्ठः; योग्यतायां योग्यतान्तराभावात् । न च योग्यता योग्यतां विनैव योग्या, यथा दृश्यत्वं दृश्यत्वान्तरं विनैव दृश्य मिति वाच्यम्; अव- च्छेदकरूपापरिचये योग्यताया एवं गृहीतुमशक्यत्वात् । न च • ज्ञानविषयत्वं तदवच्छेदकम् ; आत्माश्रयात् । न सप्तमः ; नित्येश्वरज्ञानस्य निर्विषयत्वप्रसङ्गात् । नाष्टमः; संविदीति न विषयिभावस्यैव नियामकत्वादात्माश्रयापत्तश्च | गगनादाविति | सदा सम्बन्धापेक्षाभ्यां तत्र हानोपक्षयोरसम्भवादुपादानस्य च पूर्वसिद्धत्वान्न तेषां फलत्वमित्यर्थः । कलधौतेति । कलधौत मात्र ज्ञानेन तन्मलज्ञान- द्वारा तद्धानजननात्तस्य तद्विषयत्वापत्तिरिति भावः । न द्वितीय इति । हानाद्यभावबुद्धेम्सत्वात् ग्रहणादी' हानादिबुद्धेरसम्भवादुपादानबुद्धेः पूर्वसिद्धत्वाद्धानादिधीर्न फलमित्यर्थः । तदाकरिति । तत्स्वरू- पात्मकाकारपदार्थेत्यर्थः । हेतूनामिति । अर्थकत्वस्य हेतुत्वरूपम्यैव वाच्यत्वादिति शेष | यथा दृश्यत्त्रमिति | यथा दृक्सम्बन्ध स्वरूप- सम्बन्धन स्वस्मिन्वर्तत तथा योग्यताऽपत्यर्थः । योग्यताया इति । जन्यतापि गृहीतुमशक्या | तत्तद्विषयकत्वरूपं त्ववच्छेदकमात्माश्रय- 2 गगनाही. 1 तज्ज्ञान- क. ग. 43