पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृक्दृश्यसम्बन्धभङ्गः व्यवहारावश्यम्भाव इत्येतदपि निरस्तम् । ननु – यः सम्बन्धा- न्तरमनपेक्ष्य यज्ज्ञानावच्छेदको यज्ज्ञानानवच्छिन्नस्वभावश्च स तस्य विषयः; यद्यप्यात्मा स्वविषयकज्ञानसमवायवान्; तथापि न तस्य ज्ञानावच्छेदे समवायापेक्षा, ज्ञानासमवायिनोऽपि घटा- देस्तदवच्छेदकत्वदर्शनात्, यद्यपि च रूपज्ञानं मत्समवेतं ध्वस्तमिष्टमित्यादौ रूपज्ञानाविषया अध्यात्मसमवायेच्छाध्वंसा- दयस्सम्बन्धान्तरमनपेक्ष्य ज्ञानावच्छेदकाः; तथापि समवेतेष्य- माणप्रतियोग्यात्मकरूपज्ञानावच्छिन्न स्वभावा एव; सम्बन्धे 49 कारकत्वव्याप्यमिति चेन्न; पटं करोतीत्यादौ प्रधानीभूतप्रत्यये गौण कर्मत्वे लक्षणाया अन्याय्यत्वेन प्रकृतावेव शक्यावयवे लक्षणाया युक्त- त्वात् । अत एवेत्यादिकं तु मौढ्यमूलकम् । न हि वयमसिद्धक्रियां 'पटाद्यनुकूलां सिद्धतन्त्वादिवृत्तिं कृतिविषयं नाङ्गीकुर्मः । पटमुद्दिश्य तन्तुश्चाल्यत इत्यादौ तथा प्रतीतिम्वीकाराच्च. परं त्वसिद्धस्य कर्मत्वम् । यागेन स्वर्गमित्यादौ तु स्वर्गादिपदलक्षिते स्वर्गादिसाधन यागादरभेद - स्तृतीयया बोध्यत इति नान्वयः || 2 यः सम्बन्धेत्यादि । स्वान्यसम्बन्धाघटिनम्य ज्ञानसम्ब- न्धित्वस्याश्रय इत्यवच्छेदकान्तार्थः । स्वविषयकज्ञानसमवायित्वादा- त्मन्यव्याप्तिमाशङ्कय प्रत्याह- यद्यप्यात्मेति । ज्ञानावच्छेदे ज्ञातत्वे । समवायापेक्षा समवायघटितत्वम् । यद्ज्ञानानवच्छिन्नत्यम्य कृत्यमाह--- यद्यपि चेति । समवेतेत्यादि । आत्मसमवायम्य स्वभावः समवता- त्मकरूपज्ञानावच्छिन्नः, इच्छाया इप्यमाणात्मकेन ध्वंसम्य प्रतियोग्या 1 नानन्वयः - ग. 2 स्वाश्रयसम्बन्धाद्यमहकारिकूटसंपन्नत्वादन उक्तमनु- गतेति । कार्यानुपधायकवृत्तीत्यर्थः । तेन कार्योंपधायकमात्रवृत्ति पेण घटितस्य इत्यधिकः पाठः. ADVAITA. Vol. II