पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः नाति- च्छादीनां सम्बन्धीष्यामाणाद्यवच्छिन्नस्वभावत्वादिति व्याप्तिः । ज्ञानविषयस्तु न ज्ञानावच्छिन्नस्वभावः; ज्ञानस्य घटाद्यवच्छिन्नस्वभावत्ववत् घटादेर्ज्ञानावच्छिन्नस्वभावत्वादर्श - नात् । यद्यपि स्वग्राहकज्ञानाविषयभूतं ज्ञानविपयिकानुमित्यनु- व्यवसायादिकं ज्ञानं ज्ञानावच्छिन्नस्वभावम् ; तथापि स्वयं यत् ज्ञानं प्रति विषयस्तदवच्छिन्नस्वभावं नेति नाव्याप्तिरिति चेन्न; मत्समवेतं रूपज्ञानमित्याकार कज्ञानस्यात्मसमवायविषय- कत्वाभावप्रसङ्गात् ; आत्मसमवायस्य सम्बन्धत्वेन सम्बन्धि- भूतस्वज्ञानावच्छिन्नत्वात्, घटस्य ज्ञानमिति प्रतीत्या घटा- वच्छिन्नस्वभावत्वं यथा ज्ञानस्य, तथा ज्ञातो घट इति 50 । त्मकेन रूपज्ञानेनावच्छिन्नः स्वभाव इत्यर्थः | घटाद्यवच्छिन्नेति । ज्ञानं स्वग्राहकेण साक्षिणा विषयावच्छिन्नरूपेणैव गृह्यत इति तदेव तत्स्वभावः | विषयस्तु न ज्ञानावच्छिन्न रूपेणैव गृह्यत इति स न तथेति भावः । यद्ज्ञानानवच्छिन्नेत्यत्र यत्पदक्कृत्यमाह - यद्यपि स्वग्राह- केति । सर्वं ज्ञानं वाच्यत्वेन जानामीत्यनुव्यवसायः स्वं प्रति' विषयः स्वेनावच्छिन्नस्वभावश्चेत्यव्याप्तिः अथ येन रूपेण विषयता, तेन रूपेण तज्ज्ञानानवच्छिन्नस्वभावता वच्या ; प्रकृते च येन सर्वज्ञान ( त्वेन ) विषयता, तेन स्वरूपेण न ज्ञानावच्छिन्नता; किंतु ज्ञानत्वमात्रेणेति चेत्, तथापि ज्ञानं वाच्यत्वेन जानामीत्यनुव्यवसाय म्वविषय केऽव्याप्ति- रित्यसङ्गतेयं परोक्तिरिति ध्येयम् । सम्बन्धिभूतस्वज्ञानेति । न च यज्ज्ञानं प्रति समवायो विषयः तेनानवच्छिन्नत्वमक्षतं तत्रेति वाच्यम्; समवायस्यैकत्वेन रूपज्ञानसमवायम्य रूपज्ञानज्ञानीयत्वात रूपज्ञानं मत्समवते धीविषय इति ज्ञानावच्छिन्नत्वस्य समवाये सत्त्वाच्च । 'स्वाश्रित. " ज्ञानानवच्छिन्नता. तन्ममवेत. .