पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

56 सव्याख्यायामद्वैतसिद्धो [ प्रथमः रणमिति – वाच्यम्; वस्तुत्वादिकमेव विषयत्वमित्यापत्तेः, ज्ञानावच्छेदकत्वस्य रूपज्ञानाविषये समवायेऽपि सत्वेनातिव्या- तेश्च । न च ज्ञानज्ञेययोस्स्वरूपसम्बन्ध एव विषयत्वमिति वाच्यम्; असिद्धेः । तथाहि स्वरूपसम्बन्ध इत्यस्य स्वरूपं सम्बन्ध इत्यर्थत्वे संयोगादावतिव्याप्तिः, न च तदुभयान्यत्वं विशेषणम् ; हिमवद्विन्ध्ययोरपि स्वरूपसम्बन्धापत्तेः; सम्बन्धा- , व्याप्यधर्मो मनआदावपि, अतः साक्षात्सम्बन्धेन व्याप्यतालाभाय साक्षात्पदम् वस्तुत्वादीति | सामान्यतो ज्ञानकारण 'त्वादिनिवेशे वस्तुमात्र एवोक्तलक्षणसत्त्वे वस्तुत्वादेरेव लाघवाल्लक्षणत्वमुचितम् । अथ – तज्ज्ञानकरणत्वादिघटितज्ञानविषयत्वं वाच्यम्, तथापि सन्नि- कर्षो न स्वविषयव्यापकत्वादिरूपः, व्यापकतावच्छेदकाद्यव्याप्तेः । सन्निकर्षपदेन सम्बन्धमात्र निवेशे च तत्परिहारेऽपि वस्तुमात्रे यत्किञ्चि- त्सम्बन्धस्य ज्ञानसम्बन्धित्वरूपज्ञानावच्छेदकत्वस्य च सत्त्वादतिव्याप्ति- दुर्वारेति वस्तुत्वादिक्रमेव लक्षणं कुतो न कृतमिति भावः । संयोगा- दाविति । संयोगसमवाययोरित्यर्थः । ज्ञानज्ञेययोः म्वरूपं सामान्यतो विषयतेत्युक्तावुक्तातिन्याप्तिः । तदुभयान्यत्वं संयोगसमवायान्यत्वम् । हिमवदिति तत्तज्ज्ञानज्ञेययोः स्वरूपं तत्तज्ज्ञानज्ञययोर्विषयतेत्युक्ता- बप्ययं दोषः । स्वस्यैव स्वम्मिन् सम्बन्धत्वस्वीकारे हिमवद्विन्ध्य- योरपि मिथो विशिष्टधी प्रमा स्यात् स्वरूपसम्बन्धसम्भवात् । अथ- तत्र बाधात्म्वरूपं न सम्बन्धः, तर्हि ज्ञानं ज्ञेयाभाववदिति बाधः प्रकृतेऽपि । अथ सम्बन्धान्तरेण ज्ञेयस्याभावो बाधधीविषयः, तर्हि तत्रापि तथा किमिति न रोचयेः, तथा च भ्रममात्रोच्छेदः । संयो- 1 प्रति स्वस्मिन्- ग. करण-क ग. 2 सत्वेन -ग. . 3 " मात्र निवेशे - ग. 4 स्यैव क्वचित्स्वं