पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुकूलतर्कनिरूपणम् परिच्छेदः] 61 पत्ते: ; प्रतीतिघटितस्य चाक्षुषादिप्रर्तातावविषयत्वप्रसङ्गाच्च । तस्मात्सत्यत्वे सम्बन्धानुपपत्तेराध्यासिक एव दृग्दृश्ययोः सम्बन्ध इति ॥ इत्यद्वैतसिद्धौ प्रपञ्चसत्यत्वे दृग्दृश्यसम्बन्धभङ्गः ॥ अयानुकूलतर्कनिरूपणम् स्यादेतत् –सवेर्स्थापि दृश्यस्य ब्रह्मात्मकदृगध्यस्तत्वेऽपि कस्यचित् कदाचित् किञ्चित् प्रति प्रकाशाय त्वयापि तत्तत्सन्नि- कृष्टेन्द्रियजन्यतत्तदाकारवृत्तिद्वारक एवानावृतहक्सम्बन्धः स्वी कृतः, तथाच सत्यत्वेपि तारक एव सम्बन्धोऽस्तु, किमा- . - यत्तु - 'ईश्वरेच्छायाः प्रभावेन स्वरूपयोग्यम्यापि नोपधायकत्वम्, अनुपधायकस्यापि स्वरूपयोग्यत्वे ईशम्येशत्वमेव मानम्' इति, दो पाण्डित्यं दर्शितम् । शिलादांवप्यकुरादिम्वरूपयांग्यत्वे तन्मानं किमिति नावोचः ।। तर्कैः सारस्वतै रत्नैश्चन्द्रिका चन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय दृग्दश्ययोगभञ्चनम् || इति दृग्दृश्यसंवन्धभङ्गः ॥ अथानुकूलतर्कनिरूपणम् वृत्तिद्वारक इति । वृत्तिसापेक्ष इत्यर्थः । तारक एवेति । म्वावच्छेदकतादृशवृत्तिविषयत्वमेवेत्यर्थः । ननु न वृत्तिद्वारकः सम्बन्धो नियामकः, किंतु तत्तत्पुरुषीयज्ञाने ततज्ज्ञयानामाध्यासिकः सम्बन्ध