पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धो ध्यासिकसम्बन्धदुर्व्यसनेन, न हि भवतां विज्ञानवादिनामिव तत्तज्ज्ञाने तत्तदर्थाध्यासस्वीकारः, शुद्धदृशः स्वतो भेदाभावात्, उपाधिविशिष्टाया भेदेऽपि घटादिवत्तस्या अपि मिथ्यात्वेनाधि- छानत्वायोगादिति – चेन्न; प्रकाशस्य साक्षात् स्वसंसृष्टप्रकाश- कत्वनियमेन चैतन्यस्य परम्परा सम्बन्धेन विषयप्रकाशकत्वा- योगात् । न हि प्रदीपः परम्परासम्बद्धं प्रकाशयति; इत्याशङ्कय जन्येषु तत्तत्पुरुषविज्ञानेषु तत्तद्विषयरूपाकाराध्यासवादिनां योगाचाराणामिदं सम्भवति, न त्वौपनिषदानां भवताम् । सर्वपुरुष- साधारणचैतन्यरूपज्ञानम्यैकत्वात् । वृत्त्यनपेक्षायां सर्वपुरुषं प्रति सर्वस्य सर्वदा भानापत्तेरित्याह – न हीत्यादि । अधिष्ठानत्वायोगादिति । अधिष्ठानत्वेऽपि वृत्तिद्वारकः सम्बन्ध आवश्यकः । अन्यथा वृत्तेः पूर्वमपि विषयमानं स्यादित्यपि बोध्यम् । दृष्टिसृष्टिमते अन्तःकरणोप- हिते यस्मिंश्चैतन्ये यो विषयोऽध्यम्तः स तेन भास्यत इति न वृत्त्य - पेक्षा । किञ्चोपहितस्याधिष्ठानत्वेऽपि न क्षतिः, यदभिन्नमुपहितं तस्य शुद्धचैतन्यम्य सत्यत्वात् । अज्ञानविषयरूपाधिष्ठानकोटावनिवेशेऽप्यु - पाघेरधिष्ठानोपाधित्वसम्भवाच्च । अन्यथा शुक्तयाद्यवच्छिन्नं चैतन्यं रूपाद्यधिष्ठानं न स्यादिति । नायं दोष इत्यपि बोध्यम् । प्रकाशस्य- आलोकचैतन्यान्यतरस्य | साक्षात् स्वसंसृष्टप्रकाशकत्वेति । स्वकीय- साक्षात्सम्बन्धाश्रये कार्यविशेषप्रयोजकत्वेत्यर्थः । परम्परेति । वृत्ति- विशेषद्वारकेत्यर्थः । प्रकाशयति स्वप्रयोज्यकार्यविशेषभाजं करोति । तथाच चैतन्यं, साक्षात्सम्बन्धे कार्यविशेषप्रयोजकम्, प्रकाशत्वात्, दीपवत्, इत्यनुमानाल्लाघवतर्कसचिवात् चैतन्यस्य विषये साक्षादेव सम्बन्धः । यथा हि दीपः संयोग रूपसाक्षात्सम्बन्धेन घटादौ विद्यमानो 1 रूपाद्यधिष्टानं स्यादिति-क. 2 सम्बन्धेन - ग. १ । 62 2 , [प्रथमः