पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

64 सव्याख्यायामद्वैत सिद्धां भातीत्यनुगतव्यवहारो भानस्यैकत्र न वाऽविद्यादौ तस्य तादात्म्यमन्यत्रान्यसम्बन्धः , [ प्रथमः युक्तम्। प्रवृत्यादिप्रयोजक तादात्म्येनान्यत्रान्यसम्बन्धेनेति इत्यपि युक्तम् ॥ अतो लाघवाद्विषयनिष्ठं स्फुरणमेवोक्तकार्ये प्रयोजकम् । विष- यतासम्बन्धेन तत्पुरुषीयप्रवृत्त्यादिकं प्रति तादात्म्येन तत्पुरुषीयस्फुर- णम्य हेतुत्वसम्भवात् । उक्तस्फुरणं च वृत्तेरावरणनाशार्थत्वपक्षे तत्पुरु- षीयाज्ञानस्य विषयतावच्छेदकत्वाभाववद्विषयतादात्म्यवच्चैतन्यम् । यदि चैकमेवाज्ञानमिति वृत्त्या न तन्नाशः किंतु तस्य स्वकार्याक्षमत्वम्, तदा तत्पुरुषीयवृत्त्यविषयनिष्ठं यदज्ञानविषयतावच्छेदकत्वं तदभाव- वद्विषयतादात्म्यवच्चैतन्यं तत् | यदि च वृत्तेर्जीवोपरागार्थत्वं जीवाभेदा- भिव्यक्तयर्थत्वं वा तदा तन्मनोऽवच्छिन्नचिदभिन्नं सत्तन्मनोऽवच्छिन्न- जीवोपरक्तविषयतादात्म्यवच्चैतन्यं तन्मनोऽवच्छिन्नजीवस्य स्फुरणम् ।. उपरक्तत्वं च सुखादिविषये प्रतिबिम्बवत्त्वम्, घटादिविषये ' प्रतिबिम्ब- वद्वृत्तिविषयत्वम् अन्यतरत्वेनास्खण्डेन तयोर्निवेशान्नाननुगमगौरवे । परोक्षवृत्तिमात्रेण रूपादेः स्फुरणवारणायाभिन्नमित्यन्तम् । रूपादिमात्र- विषयकापरोक्षवृत्त्या रसादिचैतन्यस्यापि तन्मनोऽवच्छिन्नचिदभेद- सम्पादनात्तदानीं रसादेरपि स्फुरणं स्यात्, अतोऽन्त्यदळम् । सर्वत्रा- भावस्य म्वरूपतो निवेशान्न गौरवम् | उक्तस्फुरणं च भात्यादेरर्थः, तत्प्रयोजकं चैतन्यं साक्षात्कारार्थः, तत्पुरुषीयस्यासत्वापादका ज्ञानस्य विषयतानवच्छेदकत्वप्रयोजकं चैतन्यं जानात्यर्थः । तच्च वृत्त्याद्यवच्छिन्नं चैतन्यमुक्त प्रयोज्यरूपं फलमादाय विषयस्य तत्कर्मता बोध्या । विस्तरेण चेदमेतत्प्रकरणसमाप्तिस्थले वक्ष्यतेऽस्माभिः ॥ यदि चैकमेवाज्ञानमतस्तस्य न वृत्त्या नाशः, सुखादावस्य 3 ' निष्टस्फुरणमेव -ग. "स्त्रप्रतिबिम्ब " सुखादावप्य-ग.