पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/५९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथम: 68 सवात् । तथाहि परस्परासंयुक्तासमवेतविशेषणविशेष्यकविशि- ष्टधीः, विशेषणविशेष्यसम्बन्ध विशिष्ट विषया, विशिष्टधत्वात्, दण्डीति विशिष्टधीवत् ; उक्ता जन्यप्रमा, विशेषणविशेष्यसम्ब- न्धनिमित्तिका, अबाधितजन्यविशिष्टधीत्वात्, विमता धीः, अबाधितविशेषणविशेष्यसम्बन्धविषया, सम्मतवत् ; अबाधि- दिति, तदपि तुच्छम् ; यत्र हि मिथ्यात्वं सम्भावितं तदाकारवृत्ते- रपि जनको दोषः सम्भावित एवंति मिथ्यात्वेन विप्रतिपन्न घटादौ वृत्तिर्दोषजन्यति' कथं त्वया निरणायि । तदनिर्णये च तादृशप्रमाविष- यत्वेन कथं सत्यत्वमनुमीयते । दोषाजन्यत्वं च तद्योग्यतारूपं दोषा- प्रयुक्तविषयकत्वादत्युिक्तम् ॥ विशिष्टधीरिति । ज्ञातो घट इत्याद्याकारिका धीरित्यर्थः । विशेषण विशेष्यसम्बन्धविशिष्टविषयेति । ज्ञानघटाद्याविषयताभ्यां निरूपिता या किञ्चिनिष्ठविषयता तद्वतीत्यर्थः । तेन ज्ञानघटादि- सम्बन्धम्यानुमानात्पूर्वमसिद्धत्वेऽपि न क्षतिः । न वा ज्ञानज्ञान- त्वादिसम्बन्धविषयकत्वमादाय सिद्धसाधनम् । संयोगसमवायविषय- कत्वमादायार्थान्तरवारणाय विशेष्यकान्तम् । परस्परम संयुक्तमसमवेतं च यद्विशेषणविशेष्यं तद्विषयकेत्यर्थः । संयोगसमवायनिष्ठा या ज्ञाननिष्ठविषयतानिरूपितसांसर्गिकविषयता तच्छून्येति पर्यवसितम् । तादृशसांसर्गिक विषयता च संयोगादिना ज्ञानभ्रमे प्रसिद्धा एवं च परम्परा संयुक्तत्वादिनिर्णयस्य संयोगादिविषयकत्वसिद्धयनिवारकत्वेऽपि न क्षतिः । न चैवं-- ज्ञानघटादिस्वरूपस्य पक्षीभूतबुद्ध्यविषयस्य कस्यचिद्वा संसर्गतामादायार्थान्तरमिति वाच्यम्; स्वस्य स्वप्रतियोगिक- त्वासम्भवेन' तत्तद्बुद्ध्यविषयस्य च तत्वेनैव तन्निष्ठसांसर्गिकविषयत्वस्य । दोषाजन्येति - क. ख. ग 2 मसंयुक्तसमवेतं-ग. 3 द्यसम्भेवन -ग.