पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

76 सव्याख्यायामद्वैतसिद्धौ [प्रथमः सिद्धिरिति व्यवहारोपयुक्तसम्बन्धसामान्यस्याप्रतिक्षेपात्र स्वव- चनादिविरोधः । तदुक्तं खण्डनकृद्भिः- बाघेऽदृढेऽन्यसाम्यात् किं दृढे तदपि बाध्यताम् । क्व ममत्वं मुमुक्षूणा- मनिर्वचनवादिनाम् ।। इति । न चादृढत्व बाधस्य; व्यापकानुपलाब्धरूपतकस्याक्तत्वात्, स्वक्रियादिविरोधरूपप्रतिकूलतर्कस्य परिहतत्वाच्च । अत एव न शक्यत' इति – वाच्यम्; उक्तानुकूलतर्केण व्यापकतानिश्चयात् । अन्यथा पक्षावृत्युपाधौ साध्यव्यापकता न निश्चीयेतेति भावः । बाघे इति । विप्रकर्षहेतुकतात्विक सम्बन्धाभावानुमितेः सामग्रया- मित्यर्थः । अदृट्ठे इति । अविप्रकर्ष तात्विक सम्बन्धव्यापकतानिश्चा- यकतर्कानवतारेणासम्पन्नायामित्यर्थः । अन्यसाम्यात्किमिति | ज्ञान- । ज्ञेये, तात्विसम्बन्धयुक्ते, विशिष्टधीविषयत्वात्, प्रतियोग्यभावादिवदिति, सत्प्रतिपक्षपर्यवसन्नादन्यसाम्यघटितप्रतिप्रयोगात्परेषां किं फलं. न किम- पीत्यर्थः । सम्पन्नायां ह्यनुमानसामग्रयां प्रत्यनुमानसामग्री सत्प्रतिपक्ष - रूपा सफला । हट्ठे – उक्ततर्कावतारेण तस्यां सम्पन्नायां । तदपि साम्यप्रतियोग्यपि । वाध्यतां - प्रतियोग्यभावादावपि सत्यसम्बन्धा भावस्तयैव' सामग्रथा अनुमीयताम् । तर्कयुक्तायां तस्यां निस्तक्त- सामग्रया न्यूनबलवत्वेन सत्प्रतिपक्षत्वासम्भवादिति भावः । बाधे दृढ- इत्यत्र न्यायेऽदृढ इति पाठकल्पनमहेतुकं,' खण्डनग्रन्थे तत्पाठाभावात् । हेयं ग. -- 1 न शक्यत ग. " तथैव - क. 3 न्याये - इ. ढ ख. -- ग. + नंतु