पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुकूलतर्कनिरूपणम् पारच्छेदः] जातिवादिसाम्यम्; तेन हि नियमसापेक्षानित्यत्वसाधककृतक- त्वादौ नियमानपेक्ष्येण दर्शनमात्रेण रूपवस्वादिकमापाद्यते । न त्वस्माभिस्तथानियमनिरपेक्षेण साहचर्यमात्रेण किंचिदापाद्यते । न चैवं – ज्ञानज्ञेययोरपि प्रतियोग्यभावादिसमकक्ष्य एव सम्ब- नियमेति नियमग्राहकतर्केत्यर्थः । दर्शनेति । सहचारदर्शनेत्यर्थः । रूपवत्वादिकं - - रूपादिसाधकत्वम् | समकक्ष्य इति । अधिष्ठाना- रोप्ययोर्यः सम्बन्धस्तदन्य इत्यर्थः । विशेष्यविशेषणजातीययोर्विप्र- कर्षाभावो विशिष्टधीप्रमात्वव्यापकः स्वाभावेन तस्यां प्रमात्वाभावं साघ- यति स च विनिगमकाभावाद्यद्यपि विशेषणविशेग्यसम्बन्धानां मिथ्यात्व- मादाय पर्यवस्यति, तथापि ज्ञानज्ञेययोर्विशिष्टबुद्धौ ज्ञानस्य स्वरूपेणानु- वृत्तत्वसत्यत्वादिग्राहकमानवत्वे नाविष्ठानत्वात्संसृष्टतयैव मिथ्यात्वम्, सन् घटः घटः सन्. ज्ञाता घटः घटस्य ज्ञानम्, घटः स्फुरति घटस्य स्फुरणमिति द्वयाकारानुभवैः परस्परावच्छेदेन ज्ञानज्ञेयविषयीकरणात् परस्परावच्छेदेनाध्यासश्च । घटो नश्यति गोमांश्चैत्र इत्यादौ तूक्तहेत्व- भावात् घटतन्नाशाद्यो: म्वरूपेणापि मिथ्यात्वम्, परम्परावच्छेदेनाध्या- साभावश्च । न हि घटादिकं नाशाद्यनुवृत्तत्वादिमदित्यत्र मानमस्ति । न वा परस्परावच्छेदेन घटतन्नाशादिकं गोतत्स्वाम्यादिकं वानुभूयते । अपि तु प्रतियोग्युपलक्षिते चैतन्ये नाशादिकम्, गवाद्यवच्छेदेन चैत्रा- दिस्वत्वम् । अथावच्छेदकीभूतस्य चिच्चॆत्यसम्बन्धम्य विशेष्यत्वम्या भावात् कथं घटादेर्विशेष्यत्वेन व्यवहार इति चेत्, चैतन्यविशेष्य- - त्वस्य तादृशस्य तत्राभावेऽपि वृत्तिविशेष्यत्वभावात् उपलक्षणीभूत- चिच्चैत्यसम्बन्धस्यापि विशेष्यतारूपत्वाद्वा घटाद्यवच्छेदेन ध्वंसादेरन- ध्यासेऽपि प्रतियोगितादिरूप सम्बन्धाध्यासाद्वा । अत एव घटोत्यन्ता- ." 1 मानबलेना- ग. ,

77