पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रपञ्चमिथ्यात्वनिरूपणम् मिलितस्य विशिष्टस्य वा साधने, शशशृङ्गयोः प्रत्येकं प्रसिद्धया शशीयंशृङ्गसाधनमपि स्यादिति वाच्यम् । तथाविधप्रसिद्धेः शुक्तिरूप्य एवोक्तत्वात् । न च निर्धर्मकत्वात् ब्रह्मणः सत्त्वा- सत्त्वरूपधर्मद्वयशून्यत्वेन तत्रातिव्याप्तिः ; 41 --- , तु न बुद्धा इति परकीयाशक्तिख्यापनस्य तत्रापि प्रयोजकत्वात् । वादकथायामपि सामान्य विशेषाभ्यां सुखबोधनस्यैव प्रयोजनत्वात् । शशीयशृङ्गसाधनमिति — शशीयत्वविशिष्टशृङ्गस्य साधनं शशीय- शृजयोरुभयत्वेन तादात्म्येन साधनं वा अर्थः । तेन मिलितसाधनेऽपि दूषणलाभः | धर्मद्वयशून्यत्वेनेति —–—यद्यपि ब्रह्मणः सत्त्वमबाध्यत्वो पलक्षितं तत्स्वरूपमेव, तदन्यत्वे तस्य मिथ्यात्वात् ब्रह्म वस्तुगत्या सत्यं न स्यात् । " प्राणो वै सत्यं, तेषामेष सत्यः, नित्यो नित्यानां चेतनश्चेतनानां, अणोरणयान् महतो महीयान् " इत्यादिभिः श्रुतिभिः व्यवहारकालाबाध्यत्वरूपप्रपञ्च सत्यत्वापेक्षया अबाध्यत्वाद्युपलक्षितस्वरू- पात्मकत्वेन ब्रह्मसत्त्वादेरुत्कर्षोक्तेः । पञ्चीकरणशारीरकतत्संक्षेपादौ ब्रह्मणो नित्यत्वादिस्वभावस्योक्तेश्च । तथाच सत्त्वं न ब्रह्मणो धर्म: प्रपञ्चस्य तु सुतरां न धर्म इति सत्त्वासत्त्वरूपधर्मद्वयेत्याद्यतिव्याप्ति- ग्रन्थासङ्गतिः । न च स्वरूपस्यापि स्वस्मिन्नभावात् धर्मेत्यस्य चाविव- क्षितत्वात् नोक्तासङ्गतिरिति वाच्यम् ; धर्मद्वयशून्यत्वेनेत्यत्र निर्धर्मक- त्वादिति हेत्वसङ्गतेः । तथापि तादृशसत्त्वादेराधारत्वं तादात्म्यं वा ब्रह्मणि कल्पितमवश्यं वाच्यम् । अन्यथा उक्तश्रुतिभिः सत्त्वादेः ब्रह्मधर्मत्वोक्तेरसङ्गतेः । अतएव ब्रह्मणो निर्धर्मकत्वात्तद्धर्माध्यासानु- पपत्तिमाशमय " आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते" इत्युक्तं पञ्चपाद्याम् । 1 स्वभावत्वोक्तेश्च, ,