पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कानरूपणम् 81 सत्त्वात् ; उभयोरपि ज्ञानत्वेन तुल्यवदेव सम्बन्धसंभवाच्च । न च समूहालम्बनजन्यैकविषयेच्छायामुभयविषयत्वापत्तिः; जनक- ज्ञानस्योभयविषयत्वादिति – वाच्यम्; अतिरिक्तसम्बन्धपक्षेऽपि तुल्यत्वात् । अथैकविषयावच्छेदेनैव ज्ञानस्य जनकत्वात् नोभय- विषयत्वं, समं ममाऽपि ; जनकज्ञाने जनकतावच्छेदकविषयत्व- तथा चानुभवस्य स्वोपधायकत्वमेव नास्तीत्यर्थः । स्वोपघायकसंस्कारोप- घायकानुभवविषयं तु सन्निकर्षघटित सम्बन्धन्यायेन दुष्टमिति भावः । ननु स्वोपधायकज्ञानघटितरूपेण न सम्बन्धता; उपधायकत्वस्य तत्त- द्व्यक्तिविश्रान्तत्वेनाननुगतत्वात् किंतु स्वसमानाधिकरणीयं यद्धट- त्वाद्यवच्छिन्नविषयत्वं तत्वेन; तथा चोपधायकतावच्छेदकस्य तत्तदा- कारज्ञानरूपवृत्त्यवच्छिन्नत्वादेरभावेऽपि इच्छोत्पत्त्यादिक्षणे समानाधि- करणं साक्षिचैतन्यं यथेच्छायाः सम्बन्धघटकं तथा स्मृतेरप्यस्तु तत्राह- उभयोरिति । समूहालम्बनेति । घट इष्टसाधनं पटः प्रमेय इत्यादि - ज्ञानेत्यर्थः । एकविषयकेति । घटादिविषय केत्यर्थः । उभयेति । घटपटाद्युभयेत्यर्थः । तुल्यत्वादिति । ज्ञानविषयतामात्रस्येच्छाविषयता- प्रयोजकत्वाङ्गीकारे तवापि तुल्यत्वादित्यर्थः । इष्टसाधनत्वप्रकारता- निरूपितविशेष्यतया तज्ज्ञानमिच्छाविषयत्वे मम प्रयोजकमतो न दोष इति शङ्कते – अथेति । जनकतावच्छेदकेति । इष्टसा घनत्वप्रकारता- निरूपिता तज्ज्ञानविशेष्यतयैव' तदिच्छाया जनकतावच्छेदक सम्बन्ध इति तदाश्रयमादायैव तस्यां सविषयकत्वव्यवहारः, इच्छान्तरेऽप्यव- च्छिन्नमनोऽवच्छिन्नं वा यादृशं विषयत्वं जनकतावच्छेदकं तादृशमेव - 1 ध्यतैव. च्छिन्नमनवाच्छन्नं वा यादृशं -ग. A.S.V. , 2 दिका - क. ख. ग. 3 ध्यबच्छिन्नं वा यादृशं-- क. प्यव- 6