पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

82 सब्याख्यायामद्वैतसिद्धौ [ प्रथमः तस्य सम्बन्ध इति, स्वप्रयोजकविषयतात्वेन सर्वस्या इच्छायाः ज्ञानीयं विषयत्वं स्वविषयत्व व्यवहारनियामकम् || न च तत्सम्बन्धेनेच्छां प्रति ज्ञानकारणता न सम्भवति, आत्माश्रयादिति वाच्यम्; प्रयोजकतायाः कारणतावच्छेदकसाधार- ण्येन कारणतान्यत्वात् तद्विषयकज्ञानस्य स्वसामानाधिकरण्यादिविशि- ष्टेच्छां प्रति समवायेन कारणत्वे दोषाभावाच्च । सर्वविषयेष्विच्छाविर- हेण विषयान्तर्भावापेक्षया पुरुषनिवेशे लाघवाभावात् । न चोक्तरूपेणे- च्छायाः कार्यत्वे स्वप्रयोजकविषयतात्वेनेच्छायां सविषयकत्वव्यवहार- नियामकत्वे च गौरवमिति वाच्यम्; तदपेक्षयापि तव तत्तद्विषयक- त्वादिविशिष्टज्ञानत्वेन ज्ञानस्य स्वकार्यानुमितीच्छादिहेतुतायां महा- गौरवात, कारणतावच्छेदके ज्ञानत्वसमानाधिकरणं यावन्निविष्टं तावद्भि- ज्ञानत्वस्य विशेष्यविशेषणभावे विनिगमकाभावात् । मम तु सविषय- कत्वादिकमेव ज्ञानत्वाविशेषितं तत्र हेतुतावच्छेदकमिति तद्भावात् । न च-तवापि विशेषणतावच्छेदकप्रकारकत्वेनेच्छादीनां हेतुत्वासम्भवाद्विष- योपहितेच्छादिप्रत्यक्षे पृथक् हेतुत्वे गौरवमिति वाच्यम्; विशिष्टवै- शिष्टयप्रत्यक्षे सन्निकर्षादीनामेव हेतुत्वेनोक्तरूपेण हेतुत्वस्यैवानङ्गीकारात्, विशेषणतावच्छेदकप्रकारताप्रयोज्यत्वेनेच्छादिसाधारण्येन मम हेतुत्वा- न्तरकल्पनेऽपि तदपेक्षया तवोक्तगौरवस्याधिकत्वात् । एवं ज्ञानत्वजातौ' सविषयकत्वमात्रस्य व्यञ्जकत्वादिसम्भवादपि मे लाघवात् । न चेष्टसाधन- स्वेऽपि स्वप्रयोजकविषयतासत्वादिच्छाविषयतापत्तिः, इष्टसाधनताव्या- वृत्तविषयतानिवेशे यत्रेष्टसाघनत्वविशेषितघटादाविष्टसाधनत्वज्ञानादिच्छा तत्रेष्टसाधनत्वे तद्विषयता न स्यादिति वाच्यम्; यादृशविषयत्वस्याश्रये , -- - 1 स्वविषयकत्व- ग. " कारणता सम्भति-ग. 3 तदभावात् - क. ग. 4 ज्ञानजातौ - क. ख.