पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः 1 नुपपत्तिः; तस्या अस्माभिरनङ्गीकारात् । तार्किकाणामपि तत्सा- धकमानबलेन • विलक्षणसम्बन्धकल्पनेऽपि जन्यज्ञानजन्येच्छ- योरुक्तप्रकारेणैव विषयताभ्युपगमात् । न च – पुत्रादिधीजन्य- सुखादेः पुत्रादिविषयत्वापत्तिः, इच्छान्यायादिति वाच्यम्; लाघवबाघकाभावौ चोक्तगौरवेण परिहृतावेव । अनङ्गीकारादिति । 'सोऽकामयत' इत्यादिश्रुतेच्छाङ्गीकारेऽपि वीक्षणवत्तस्या मायापरि- णामत्वादिति शेषः । विलक्षणेति । जन्येच्छाविषयतातो विलक्षणे- त्यर्थः । तस्या इत्यनुषज्यते । सम्बन्धेति | विषयसम्बन्धेत्यर्थः । अन्यमात्रे ज्ञानेच्छाकृतिमत्वरूपकर्तृताया अनुमानादिबलेन सिद्धौ लाघवाज्ज्ञानादीनां नित्यत्वस्यापि सिद्धिस्वीकारात् । ज्ञानीयविषय- त्वस्येच्छादिप्रयोजकत्वासम्भवात् स्वसमानाधिकरणज्ञानीयं घटत्वाव- च्छिन्नत्वादिविषयत्वमिच्छाया विषयसम्बन्धोऽङ्गीक्रियते । अत एव क्षितिः, सकर्तृका, कार्यत्वात्, घटवत्, इत्यनुमाने स्वविषयकज्ञानं तत्सामानाधिकरण्यसम्बन्धेन स्वविशिष्टेच्छाकृतिमत्वं चेति त्रयविशिष्ट- जन्यत्वमेव साध्यम् । न च – घटज्ञानघटेच्छार्दिमत्यप्युक्तविषयत्व- सत्वा तादृशस्यापि कुलालादेर्घटादिहेतुत्वापत्तिरिति – वाच्यम्; जन्य- जनकभावापन्नज्ञानादिमत्वेन हेतुत्वेऽपि साध्ये तद्रूपेणाविनिवेशेऽपि क्षत्यभावात् जन्यजनकभावापनं यज्जन्यं तदन्यज्ञानादेः साध्ये निवे- शादीश्वरसाधारण्याय तद्वत्वेनैव हेतुत्वाद्वा । उक्तप्रकारेणैवेति । प्रकाशस्य सतस्तदीयतामात्रनिबन्धनः स्वभावविशेषो विषयतेति विषय- तालक्षणे बौद्धाधिकारीये हि स्वत इच्छादीनां विषयतानिरासाय प्रकाशस्येत्युक्तमिति वर्धमानादयः । उक्तं चान्यत्रापि तार्किकै: 'याचि- तमण्डनन्यायेन विषयत्वमिच्छादे' रिति ॥ 3 84 " 1 जन्यमात्रे-ग. 2 प्युक्तसत्वा - क. ख. 3 साध्यनिवेशात् - ग.