पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अनुकूलतर्कनिरूपणम् 87 तवापि मते ज्ञेयस्य न स्वज्ञानेऽध्यस्तत्वनियमः; अनध्य- स्तस्य तुच्छस्य पञ्चमप्रकारत्वपक्षे अविद्यानिवृत्तेः भावाद्वैतपक्षे अभावस्य हग्रूपत्वेऽपि स्वज्ञानेऽनध्यासात्, अपरोक्षैकरसे ब्रह्म- ण्यध्यस्तस्य व्यावहारिकस्यातीतादेर्नित्यातीन्द्रियस्य च परोक्षा- नुभवरूपे स्त्रज्ञानेऽनध्यासात्, स्मर्यमाणस्य च स्मृतिरूपे स्वज्ञा- नेऽनध्यासात्, प्रातिभासिकस्य च प्रातिभासिके स्वज्ञानेन- ध्यासात्, त्वन्मते भ्रमरूपज्ञानस्यापि कल्पितत्वादिति चेत्, मैवम् ; तुच्छस्याज्ञेयत्वेन ज्ञाने अध्यासाभावात्, ज्ञेयस्य हि तथा सति पुरुषान्तरीयवृत्तिमादायापि घटे निर्वृत्तिकपुरुषस्य अहं घटं जानामीति व्यवहारापतेः । स्वतादात्म्याश्रयविषयकवृत्तिसम्बन्धेन ज्ञानस्योक्तव्यवहारविषयत्वे परम्परा सम्बन्धद्वयनिवेशे गौरवात् । चैतन्ये. नाविशेषिता विशेषिता वा वृत्तिस्तु न ज्ञानमननुगतत्वादित्युक्तम् । ज्ञानविषययोरध्याससम्बन्धानुरोधादुक्तव्यवहारे परम्परासम्बन्धद्वयभान- मपि युक्तम् । इच्छादिकारणतादिकं तु घटाद्याकारवृत्तेर्घटाद्य वच्छिन्न- स्याज्ञानाभावस्य वेति नोक्तसम्बन्धद्वयप्रवेशे गौरवमिति तु विभावनी- यम् । न चैवम् – कालिकसम्बन्धेन वृत्तिनिष्ठचैतन्यमेव ज्ञाधातुवाच्य- मस्तु लाघवादिति वाच्यम्, येन हि घटाद्याकारवृत्तिर्न ज्ञायते तेन घटो ज्ञात इति पुरुषानन्तर्भावेनापि न व्यवयिते । यदि त्वसत्वापादका- ज्ञानविषयतानवच्छेदकतादात्म्यापन्नं चैतन्यं ज्ञानं, यस्य प्रमातुर्घटादि- वृत्तिर्न जाता तत्प्रमातारी तादृश विशिष्टचैतन्यं नास्ति, उक्तानवच्छेदक- त्वरूपविशेषणाभावादित्युच्यते; तदा प्रत्यक्षस्येव परोक्षस्याध्यासरूपः साक्षादेव ज्ञानस्य सम्बन्ध इति ध्येयम् || ६ ज्ञेयस्य हीति । ज्ञेयत्वं चैतन्यरूपज्ञानतादात्म्ययोग्यत्वं सद- ● 1 चैतन्येनाविशेषिता वा. -क. ग. 2 प्रमातुरेतादृश-ग. · - .