पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [ प्रथमः ज्ञानेऽध्यासः, तुच्छस्य तु न ज्ञेयतेत्यग्रे वक्ष्यते । पञ्चमप्रकारा- विद्यानिवृत्तेरपि प्रतियोग्यधिकरणे ध्वंसस्यापि तत्र वृत्तेरवश्य- म्भावादध्यास एव सम्बन्धः । वस्तुतस्तु अविद्यानिवृत्तेः पञ्चम- प्रकारत्वं च भावाद्वैतं चानभ्युपगमपराहतम् । यथा चाविद्या- निवृत्तेर्ब्रह्मरूपत्वं सर्वाद्वैतं च तथोपरिष्टाद्वक्ष्यते । अपरोक्षैकरसे ब्रह्मण्यभ्यस्तस्यातीतादेरनुमित्यादिरूपज्ञाने अनध्यासेऽपि यस्मि- चैतन्ये तद्भ्यस्तं तदेव चैतन्यमनुमित्यादिरूपवृत्त्यवच्छिन्नमिति सद्विलक्षणत्वम् । प्रतियोग्यधिकरण इति । सतीति शेषः । तत्र - प्रतियोग्यधिकरणे । कपालनाशजन्यघटादिनाशे व्यभिचारात्सत्यन्तम् । अभ्यास एवेति । न च विशेषणताख्यसम्बन्धेन ध्वंसश्चतन्ये वर्तते न तादात्म्येनेति – वाच्यम् ; भट्टमते ह्यभावस्य तादात्म्यमेवाधिकरणे सम्बन्ध इति कुसुमाञ्जलिवाक्ये ज्ञापितं मिथ्यात्वानुमान इत्यस्मन्मतेऽपि तथा स्वीकारात्, हक्तादात्म्यं विना स्फुरत्यविद्यावृत्तिरिति व्यवहारा- सम्भवाच्च । अविद्याध्वंसस्य तादात्म्यरूपाध्यास एव चैतन्ये सम्बन्ध इति भावः । वस्तुतस्तु अविद्याध्वंसः स्वरूपेण पञ्चमप्रकारोऽनध्य- स्तोऽपि ज्ञानाविषयत्वान्न ज्ञेयः, तथा भावाद्वैतमते प्रपञ्चाभावोऽपि स्वरूपेण चैतन्येऽनध्यस्तोऽपि न ज्ञेयः, कार्यत्वाद्देशसम्बन्धाच तुच्छ - विलक्षण: । अविद्यानिवृत्तित्वप्रपञ्चाभावात्वादिमिथ्याघटितरूपेण त्ववि- यादशायामविद्याध्वंसादयो ज्ञेया अध्यस्ताश्च । अथ स्वरूपेण ज्ञेयत्वं विना व्यवहार्य न स्यादिति - चैन्न ; चैतन्यसम्बन्ध रूपज्ञेयत्वं विनापि तदाकारवृत्तिमात्रेण तुच्छवद्र्यवहारोपपत्तेः ॥ -- 88 ( तदेवेति । ब्रह्मणि घटादिविषयाणां वृत्तेश्चाध्यासाद्धटाद्यघि- ष्ठानस्य वृत्त्यवच्छिन्नत्वं, जीवचैतन्यस्य जगदुपादानत्वपक्षेऽप्येवम् । 1 ध्वंसस्येव. 2 निवृत्तिरिति-क. ख. ग. →