पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः निष्प्रामाणिकी स्यात् । तस्माद्याहशस्य घटादेरिन्द्रिय सन्निकर्षा- श्रयत्वेन ज्ञानकारणत्वं तादृशस्य साधकं किञ्चिन्मानमवश्य- मभ्युपेयम् । अन्यथाऽन्वयव्यतिरेकयोरग्रहेण कार्यकारणभावा- ग्रहात् सर्वमानमेयादिव्यवस्थोच्छिद्येत । तच्च मानं न वृत्ति - रूपम् ; तदानीं वृत्तिकारणाप्रवृत्तेरिति तद्विलक्षणं नित्यं स्वप्र- .) काशमेकमेव लाघवात्, वृत्तिगतोत्पत्तिविनाशजडत्वादिभिस्तद- संस्पर्शात् । तदेव च नानाविधोपाधिसम्बन्धान्नानाविधव्यव- स्तस्याः सम्भवेऽपि स्वसमानकालीनाज्ञाततया घटादिप्रत्यक्षमिदानीं घटं न जानामीत्या कारकम् तदुत्तरं तादृशघटादिकारणताज्ञानादिरूपं तत्फलं च नापलपितुं शक्यमानुभविकत्वात् । किञ्चाज्ञान' कालीनघटज्ञानं विना तादृशघटेन्द्रियसंयोगानुकूलेन्द्रियव्यापारादौ तत्कालीनप्रवृत्त्यसम्भवः । नच-स्मरणसशयाद्यप्रमाणवृत्त्या तत्सम्भव इति वाच्यम्, अज्ञातत्वांशे तदसम्भवेन ज्ञातघटसंयोगानुकूलव्यापारे प्रवृत्त्यसम्भवात् । पूर्वाननु भूते स्मरणासम्भवा संशयवृत्त्या संशयस्यैवौचित्यावर्जितत्वेनोक्त संयोग- रूपेष्टसाघनत्वे निश्चयासम्भवात् । नित्यं स्वप्रकाशमेकमिति | तस्य तादृशज्ञानरूपत्वाभावे आनामीति व्यवहारस्यैक विषयकत्वं न स्यात् । सम्भवत्येक विषयत्वे' चैकजातीयविषयकत्वं न युक्तमित्याद्युक्तम् । घटादि- वृत्तेश्व जडत्वेन ज्ञानान्तरे तत्प्रकाशके वाच्ये तस्यात्मान्यत्वे मानाभावः । आत्मस्वरूपत्वे चैकव्यक्तिरेव सर्वपुरुषसाधारणी नित्या, तस्याः ज्ञानान्तर- विषयत्वे च कदाचिद्देहादि स्फुरति न वेत्यादिसंशयः स्यात्, अतः स्वप्रकाशा । अन्यथा कैवल्यस्य भासमानता न स्यादिति भावः । नानाविधेति । ब्रह्मणो ज्ञानादिगुणकत्वं परेणाप्युच्यते । तत्र ज्ञानादे- भिन्नत्वे ब्रह्मभिन्नत्वे जीवभिन्नत्वे च मानाभावादुपाधिभेदादेव 92 -ग. 1 अज्ञात- ग. 2 विषयकत्वे -