पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

96 सव्याख्यायामद्वैतसिद्धौ [प्रथम: • प्रवृत्तौ प्रमातुः प्रमेयाज्ञानज्ञानमावश्यकम् । अन्यथा तन्निवृत्तीच्छाया असम्भवादिति भावः ॥ 1 - -- यत्तु – परोक्षज्ञानस्थले यत्र विषयोऽध्यस्तः तदेव चैतन्यमनु- मित्यादिवृत्त्यवच्छिन्नमतो ज्ञान एवाध्यास इति न युक्तम् ; तावता स्व- ज्ञानेऽध्यासालाभादिति; तत्समाहितमेव । न हि प्रत्यक्षस्थलेऽपि ज्ञान- त्वेनोपहितेऽध्यासः ; तस्यानघिष्ठानत्वात्, किंतु ज्ञानत्वोपलक्षिते । तथाच स्वज्ञानाभिन्न एवाध्यास इति नियमो न व्याहतः । यदपि घटादेरज्ञाततया साक्षिभास्यत्वे सदा सर्वस्य सर्व भायात् । किञ्चाज्ञातता- कालेऽपि घटादिकं योगिना प्रमीयत इति न तदा तस्य भाना- सिद्धत्वेना सत्त्वमिति साक्षिज्ञानत्वं व्यर्थमिति, तदपि न ; अज्ञात- तथा सर्वस्याज्ञात 'मानस्येष्टत्वात् । उक्तं हि विवरणे - 'ज्ञाततया अज्ञाततया च सर्वं साक्षिभास्य' मिति । न चैवं – घटो भाति, अज्ञा- तघटो भातीत्यादिव्यवहारः स्यादिति वाच्यम्; यथा झज्ञातेऽपि घटादावनुमितत्वादिना भातीति व्यवहारस्तथा अज्ञातत्वेन भातीति व्यवहार इष्ट एव । अथानुमितत्वादिना भातीत्यपलम्यते अपलप्यतां तर्हि सः । तथापि यथा तार्किकादिमते मानसज्ञानस्य ज्ञानादौ लौकि- कविषयत्वस्य तद्विषये घटादौ तदन्यविषयत्वस्य च स्वीकारः, तथा मन्मतेऽप्यज्ञानज्ञानयोरनावृतम्याज्ञात परोक्षज्ञान विषययोरावृतस्य साक्षि- तादात्म्यस्य स्वीकारः | तन्मते तादृशविषयताया इव मन्मते तादृश- तादात्म्यस्य कार्यकारणभावादिग्रहप्रयोजकत्वस्य सम्भवः । घटो भातीति व्यवहारस्य तु नापत्ति शुद्धघटस्य तादृशतादात्म्यानजीकारान, घटं न जाना मी त्या कारकानुभवकालोत्तरं तार्किकादिभिरपि घटज्ञानकार्यमङ्गी- क्रियत एव अभावः परं तत्र विषय उच्यते । न च –त्वन्मते घटाज्ञान- , स्वज्ञान मात्र. 3 स्याज्ञातस्य-ग.