पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. परिच्छेदः] अनुकूलतर्कार्नरूपणम् 99 दृश्यत्वान्यथानुपपच्या मिथ्यात्वमित्यर्थापत्तिर्विवक्षिता, किंवा सत्यत्वे दृश्यत्वं न स्यादित्यनुकूलतर्कमात्रम् । नाद्यः; तत्सा- मप्रथभावात् । तथा हि आक्षेप्यस्योपपादकत्वम्, प्रमाणाविरु- द्धत्वम्, आक्षेपकस्यानुपपद्यमानत्वम्, प्रमितत्वम्, चेत्यर्था- पत्तिसामग्री । प्रकृते 'चाक्षेप्यसम्बन्धिनो मिथ्यात्वं नाक्षेपकस्य , स्वरूपत्वात् तदपि नित्यमसन्दिग्धत्वात्, व्यतिरेकेण घटादिर्दृष्टान्तः । साक्षी ह्यन्यं सन्दिहानोऽपि न सन्दियते, विपर्यस्यन्नपि न विपर्यस्यते, परोक्षतया जानानोऽपि स्फुरतीति सर्वानुभविकम् । न चैतदन्याधीन- वेदनत्वे साक्षिणो घटत इति 'नाभाव उपलब्ध' रित्यधिकरणीय- भाप्यादितात्पर्यसिद्धं समाधानम् ॥ 1 2 आक्षेप्यस्येति । अर्थापत्ति कल्प्यस्येत्यर्थः । उपपादकत्वं यद्विनाऽऽक्षेपक मनुपपन्नं तत्वम् । आक्षेपकस्येति । यत्रानुपपन्नत्वधीः करणं तस्येत्यर्थः । अर्थापत्तीति । अनुपपत्तिधीकरणकार्थापत्तीत्यर्थः । अथवा यः संशय: - कारणं सोऽप्याक्षेपकः । तथाच संशयकाराणका प्यर्थापत्तिः प्रकृते ग्राह्या । यथा हि जीविनो देवदत्तस्य गृहासत्वं बहिः सत्वं विनानुपपन्नमिति धीरुपपादकस्य बहिस्सत्वम्य देवदचऽर्थापत्तौ करणम्, तथा जीविनो देवदत्तस्य गृहासत्वज्ञानं पूर्वनिश्चित जीवन- गृहसत्वनियमयोः संशयाहितजीवन संशयद्वारा करणम् उक्तनियम संशयो वा जीवनसंशयद्वारा करणम्, करणम्य सव्यापारत्वानियमात् । जीवनसंशय एव वा करणम्, देवदत्तो बहिरम्तीत्यर्थापत्यन्वयव्यतिरंकानु- विधानस्याविशेषात् तद्विनानुपपन्नत्वं तु तद्भावव्यापकाभावप्रतियोगित्व- मित्याद्या करे विवेचितम् । प्रकृते तु दृग्दृश्ययोरन्यतरमिथ्यात्वं विना सम्बन्धोऽनुपपन्न इति घी: पूर्वनिश्चित योग्दृश्ये सम्बद्धे एव, तयोः · 1 चक्षिप्यं संव. 2 यत्संशयः - क. ग. 7*