पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ 104 [ प्रथमः गतत्वेऽपि वृत्तिसम्बन्धस्य तुच्छगतत्वाभावोपपत्तेः । नापि - यथा सतो ब्रह्मणः स्वव्यवहृत्या सम्बन्धः, तथा घटादेरपि सत एव स्वज्ञानेन सम्बन्धोऽस्त्विति वाच्यम्; ; दृष्टान्ते ब्रह्मण्यध्या- सस्यैव व्यवहृतिसम्बन्धत्वात् । तथा च उभयसम्बन्धिसत्वे विषयविषयिभावानुपपत्तिर्नाप्रयोजकत्वादिना परिभूयते । एतेन आध्यासिकः सम्बन्धो नाम अध्यस्तसम्बन्धो' वा, अध्यस्तत्व- मेव वा, आद्ये सम्बन्धस्य मिथ्यात्वेऽपि सम्बन्धिनो दृश्यस्य दृश इव मिथ्यात्वानुपपत्ति: । द्वितीये ज्ञानस्याप्यध्यस्तत्वेन तत्र अध्यासानुपपत्तिः स्वस्त्रज्ञानपरम्परायामध्यासस्वीकारेऽनव- स्था चेति–निरस्तम् ; ज्ञानं हि वृत्त्यवच्छिन्नं चैतन्यम्, तत्रा- वच्छेदिकाया वृत्तेर्जडाया अध्यस्तत्वेऽप्यवच्छेद्यस्य चैतन्यस्य प्रकाशरूपस्य अनध्यस्तत्वेन तत्र दृश्यस्याध्यासात् दृश्यमिथ्या- सदसतोर्न सम्बन्ध इति वृद्धाः । विस्तरेण च वृत्तेस्तुच्छ विषयकत्वं बौद्धाधिकारादौ प्रत्युक्तमुदयनाचार्याद्यैरिति सूचितम् । अथापि तादृश- वृत्तः कालसम्बन्धात्कालविशेषावच्छेदेन तुच्छाकारतां वक्तुं शक्तचा, तुच्छस्य तु कालासम्बन्धात्तदवच्छेदेन तत्र वृत्तिसम्बन्धो न तथा । न अधिकरणासम्बन्धमप्यवच्छेदकम् । अतएव ध्वंसादीनां प्रतियोग्यादिषु न सम्बन्धः, किं तु ध्वंसादौ प्रतियोग्यादिसम्बन्ध इति परेऽप्याचक्षते । नच – तुच्छनिष्ठा वृत्तिविषयता न तत्तत्कालावच्छिन्नेति--वाच्यम्; तस्याः सार्वदिकत्वापातादित्याशयेनाह-वृत्तिसम्बन्धस्येति । एतेन - तुच्छाकारताया वृत्तावीकारे तुच्छे वृत्तिसम्बन्धोऽप्यवर्जनीय इत्य- पास्तम् । नच – वृत्तिनिष्ठाकारतानिरूपकत्वं कालावशेषावच्छिन्नं विना तादृशाकारतापि वृत्तौ न सम्भवतीति -- वाच्यम्; न हि निरूपकत्वं 1 अध्यस्तः सम्बन्धो, 2 निष्ठाकार निरू- क. ख. -