पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुकूलतर्कनिरूपणम् 105 त्वेऽप्यनवस्थाविरहस्योपपत्तेः । अत एव शाब्दवृत्तिविषयो ब्रह्म न वृत्तौ कल्पितमविद्याविषयो ब्रह्माविद्यायां न कल्पितं यथा, तथा दृश्यं न हाश कल्पितम् ; तथा च दृग्दृश्यादेस्तात्विक एव सम्बन्धः, सामान्यसम्बन्धेनैवातिप्रसङ्गे निरस्ते विशेषजि- ज्ञासा विशेषोक्तिश्व विशेषजिज्ञासादिवदनार्थ कैवेति निरस्तम्; वृत्यविद्ययोर्ब्रह्मणोऽनध्यासेऽपि तयोरेव ब्रह्मण्यध्यासात्सम्बन्धो- पपत्तेः । अतस्तत्र तात्विसम्बन्धाभावात् कथं तदृष्टान्तेन दृग्ह- श्ययोरपि तात्विकसम्बन्ध इत्युच्यते ? तथा च प्रसिद्धविशेषे बाधिते सामान्यस्यैव बाधशङ्कया अतिप्रसङ्गे प्राप्ते विशेषजिज्ञा- साया विशेषोक्तेश्च साफल्यान्न ते निरर्थिके। एतेन सम्बन्धस्य परिच्छेदः] नाम वस्त्वन्तरं तादृशमङ्गीक्रियते; अननुभवेन सम्बन्धमात्रस्य सम्बन्धा- "नङ्गीकारात्, अपित्वाकारमात्रं वृत्तौ तुच्छीयताप्रयोजकमनिर्वाच्यम् । अन्यथा ध्वंसादौ प्रतियोग्यादिसम्बन्धे त्वयापि स्वीकृतेऽनुपपत्त्यापाता- दिति भावः ॥ सामान्यसम्बन्धेनेति । सम्बन्धसामान्येनत्यर्थः । इति सत्ये- नेत्यादिः । प्रसिद्धविशेषे— सत्यसम्बन्धे । सामान्यस्य – सम्बन्ध- सामान्यस्य | बाधशङ्कयेत्यादि । यदि सत्यसम्बन्ध एव विशेषस्तदा- विप्रकृष्टयोः सम्बन्धिनोस्त सम्भवात्सम्बन्धसामान्यं न स्यात् । न चान्ययोः सम्बन्धो विप्रकृष्टयोर्विशिष्टबुद्धौ भाति; अन्यथाव्यात्यनङ्गी- कारात्, हग्दश्यादिविशिष्टबुद्धेः प्रमात्वेनान्यथाख्यात्यसम्भवाच्च । सम्बन्धविषयक' एव विप्रकृष्टयोर्विशिष्टबांध इति स्वीकारे च सन्निकृष्ट- योरपि स तथा स्यादित्यतिप्रसङ्गः । अथवा विशेषस्य बाsपि यदि सम्बन्धसामान्यं स्यात्तदा घटादिसामान्यान्तरमपि तथा स्यादित्यति- 1 सम्बन्धविषयक क. ग. 2 विशेषस्याबाधऽपि ख. ग. ६