पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

108 सव्याख्यायामद्वैतसिंद्धो [ प्रथमः वादप्रसङ्गात् । अन्यतराध्यासे च विनिगमकमनुवृत्तत्वव्या- वृत्तत्वप्रकाशत्वजडत्वादिकमेव । तस्माद्विषयिणो नित्यशोऽ- नध्यासाद्विषयस्यैवात्राध्यासः । न च – “प्रमाणजातं ' स्ववि- षयावरणे" त्यादियुक्तया दृग्विषयत्वरूपदृश्यत्वस्य हेतूकरणेन च त्वयापि विषयत्वं निर्वाच्यमेवेति – वाच्यम्; तत्वतोऽनिर्वाच्य- त्वेऽप्यध्यस्तत्वेन घटादिसमकक्षनिर्वाच्यत्वस्य सम्भवात् । ननु – कथं प्रमाणज्ञानविषयोऽध्यस्त इति – चेन; प्रपञ्चविषय- कज्ञाने तत्वावेदकत्वलक्षणप्रामाण्याभावादिति गृहाण । अत एव - " 'यादृशं विषयत्वं ते वृत्तिं प्रति चिदात्मनः । पादकं न तु तत्सम्बन्धमात्रस्येत्यर्थः । अन्यतराध्यासे | विषयविष- यिणोरन्यतराध्यास आवश्यके अनुवृत्तत्वे इत्यादि । यद्यपि यद्ध- मान्तरानुवृत्तं तदवश्यं तदेतद्भमाधिष्ठानमेत मेऽनारोपितमिति वा न व्याप्तिः; शुक्तिरूप्याद्यवच्छिन्ने चैतन्ये भ्रमान्तरोदयेन शुक्तिरू- प्यादेः स्वभ्रमानधिष्ठानत्वादिना व्यभिचारात् । नापि सर्वभ्रमानुवृत्त- त्वमनारोपितत्वे व्यतिरेकी हेतु; तावतापि शुक्तवाद्यवच्छिन्नचैतन्यस्या- धिष्ठानत्वासिद्ध्यादितादवस्थ्यात् । तथापि यद्यमबाधानुवृत्तं तत्तद्ध- माधिष्ठानमित्यादिव्याप्तिर्बोध्या । ज्ञानस्वरूपं च सर्वभ्रमबाधे विषयत यानुवृत्तं शुक्तिरूप्यादिभ्रमं प्रत्यपि शुक्तयवच्छिन्नसद्रूपेण तत्तथा । शुद्धब्रह्मरूपेणापि तद्बाधनम्वरूपयोग्ये अखण्डाकारज्ञाने तत्तथा । यत्स्व - प्रकाशं तन्न मिथ्या; तद्वाघस्य तेन भास्यत्वासम्भवात्तत्र भासकान्तर- कल्पने च गौरवात् । आदिना विनाशित्वाविनाशित्वसङ्ग्रहः | यद्वि- नाशि तन्न सर्वभ्रमाधिष्ठानं; तद्विनाशे तम्याधिष्ठानत्वासम्भवादित्यादि बोध्यम् । तत्वेति–त्रिकालाबाध्येत्यर्थः । सत्ता – त्रिकालाबाध्यता । प्रमाणज्ञानं,