पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनुकूलतकनिरूपणम् तादृशं विषयत्वं मे दृश्यस्यापि दृशं प्रति' || इति निरस्तम् ; चिदात्मनोऽनध्यासेपि वृत्तेस्तत्राध्यस्तत्वेन तदृष्टा- न्तेन प्रकृतेऽप्यनध्यासस्य वक्तुमशक्यत्वात् । स्यादेतत् - मिथ्या- त्वनिर्वचनात्तत्साधनं दृश्यत्वादिकं निर्वक्तव्यमेव, न हि घटा- द्यसङ्कीर्णाकारज्ञानं विना तद्विलक्षणव्यवहारः । 'अथ निरुक्ता- सङ्कीर्णाकारज्ञानमात्रेण तदुपपत्तिः, तर्हि तुल्यं ममापि । इयांस्तु विशेषः; यत्तव स आकारः सद्विलक्षणः, मम तु त्वन्मतसिद्ध- प्रातिभासिकवैलक्षण्यसाधकमानसिद्धसत्ताकः । न हि लक्षणो- क्तयनुक्तिभ्यां सदसद्वैलक्षण्यरूपा निर्वचनीयत्वहानिलाभौं; ब्रह्म- यपि श्रौतस्यपि जगत्कारणत्वादिलक्षणस्य खण्डनरीत्या अस म्भवात्, त्वयैव- परिच्छेदः] 109 कीहक्तत्प्रत्यगिति चेत्ताहगीहगिति द्वथम् | यत्र न प्रसरत्येतत्प्रत्यगित्यवधारय || इति ब्रह्मणोऽपि दुर्निरूपत्वोक्तेश्च, प्रपञ्चेsपि त्वदुक्तानिर्वाच्यत्वसम- कक्षलक्षणसम्भवाच्च, 'यत्कठिनं सा पृथिवी' त्यादिश्रुत्या पृथि - व्यादीनामपि लक्षणत्वोक्तंश्च । तस्मादनिर्वाच्यत्वं न. सत्ववि- रोधि | सत्वेऽप्यनुद्भूतत्वादेवानिर्वाच्यत्वोपपत्तेः । न च निर्वा- च्यत्वमपि सत्वप्रयोजकम्; न हि शुक्तिरूप्यस्यापीतरभेदसाधकं रूप्यत्वं प्रातीतिकजातिरूपतया सुवचमपि सत्यम् । किञ्च तादृक्-परोक्षम् | ईदृक् अपरोक्षम् । यत्र न प्रसरति । यस्य प्रतीचो न समसत्ताकलक्षणम् यथा श्रुते मूलाज्ञानविषयत्वादेर्लक्षणत्वसम्भवाद- सङ्गतेः । दुर्निरूपत्वोक्तेः – अनिर्वाच्यस्यैव लक्षगम्योक्तेः । अनिर्वा- , 1 अथानिरुक्ता. N