पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

114 सव्याख्यायामद्वैतसिद्धौ च । तत्राद्ये वृत्तिर्जीव चैतन्यस्य व्यवहार्यता स्यात्, अतो मनआद्यवच्छेदेना नावृतमपि घटाद्यवच्छे- देनावृतं जीवचैतन्यमुच्यते । तस्य जगदनुपादानत्वपक्षे तु घटादिना तादात्म्याभावात्सर्वसम्बन्ध्यविद्या प्रतिबिम्बत्वस्य भासकतानियामकत्वे सर्वदा तद्भानापत्तेर्वक्ष्यमाणस्य भासकतानियामकसम्बन्धस्य कादाचि- त्कत्वादेव कादाचित्कभानसम्भवादनावृतमेव तदिति भावः । उपरागा- थेति । स्वप्रतिबिम्बाधारवृत्तेः संश्लेषो विषयत्वं चेत्युभयरूपोपरागार्ये- त्यर्थः । रूपायाकारवृत्तिमात्रेण रसादेरपि भानं स्यात्, रसादावपि रूपाच्या कारवृत्तिसंश्लेषसत्त्वादतो विषयत्वेति । परोक्षवृत्तिमात्रेण रूपा- देर्भानं स्यादतः संश्लेषेति । अविद्यामनस्तत्परिणामानां सर्वदा भाना- त्सार्वदिकं स्वप्रतिबिम्बाधारत्वमेवोपरागस्तन्नियामकः । घटादौ स्वच्छ- त्वाभावेन तदसम्भवात्तद्धाटतोक्तोपरा गकाल एव तद्भानाच स एव तन्नियामक इति भावः ॥ -- ननु – मनस्त्वसुखत्वादौ न प्रतिबिम्बाधारत्वं न वा तद्वद्वृत्ति- संश्लेष इति तद्भानं न स्यात्, न हि जातिगुणादेः प्रतिबिम्बोपाधि- तास्ति । अथ स्वप्रतिबिम्बवत्तादात्म्यतद्वत्तादात्म्यतद्वत्तादात्म्यादेरपि + भासकतानियामकोपरागत्वं वाच्यम्; तथापि धर्मादेर्ब्रह्मणश्च भानं स्यात्, स्वप्रतिबिम्बाश्रय'मनस्तादात्म्यसत्वादिति- चेन्न; मनस्त्वादावपि वक्ष्यमाणेन स्वच्छत्वस्य प्रतिबिम्बवत्वस्य च कल्पनासम्भवात् तस्या- प्यविद्यापरिणामत्वप्रयुक्तसत्वगुणान्वयान्मनआदेवि सर्वदा भानाच, चित्प्रतिबिम्बयोग्यतारूपस्वच्छता कल्पनौचित्यात्, प्रतिबिम्बवत्तादात्म्या- , [प्रथमः विषयोपरागार्था । 1 प्रतिबिम्बवत्वस्य - क. ग. 2 संश्लेषविषयत्वं - ग. 3 तोपरागकाल-ग. 1 स्वप्रतिबिम्बवत्तादात्म्य देरपि- ग. 6 बिम्बक्षयम-क. स्वप्रतिबिम्बमन -ग. ॰ वक्ष्य- माणमानेन - क. ख. ग. -