पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

116 सव्याख्यायामद्वैतसिद्धौ ( नावृतं सर्वगतमपि जीवचैतन्यं तत्तदाकारवृत्त्यैवोपरज्यते, न तु विषयैः; असङ्गत्वात्, यथा गोत्वं सर्वगतमपि सास्त्रादिमव्यक्तथाऽभिव्यज्यते, न तु केसरादिमब्यक्तथा ; यथा वा प्रदीपप्रभा आकाशगन्धरसादिव्यापिन्यपि ताम प्रकाशयन्ती रूपसंसर्गितया रूपमेव प्रकाशयति तद्वत् ; जगदुपादानाच्छुद्धब्रह्मणो' मनस्तादात्म्येन जीवोपरक्तत्वातत्रावरणावश्य- कत्वाच्च तदभिभवार्थत्वं वृत्तेरक्षतमिति दिक् । वृत्त्यैवोपरज्यत इति । भासकतानियामकः सम्बन्धो वृत्त्यैवेत्यर्थः । तेन सम्बन्धान्तरस्य घटादौ सत्वेऽपि न क्षतिः । एवकारेण घटादिभिरुक्तोपरागो व्यवच्छिद्यते, न त्वविद्यादिनेति स्फुटयति– न तु विषयैरिति । वृत्तिं विनेति शेषः । वृत्तिविषयैर्वृत्तिद्वारैवोपरज्यते, न तु स्वप्रतिबिम्बत्वादि सम्बन्धेनेति फलि- तोर्थः । असङ्गत्वादिति । असङ्गो ह्ययं पुरुष इत्यादिश्रुत्या सङ्गबो- घकमानाभावेन च जीवस्य प्रपञ्चसम्बन्धराहित्यादित्यर्थः । ननु – तर्झविद्याद्यनादिष्वविद्यावृत्तिमनस्तत्परिणामसुखादिषु चापि जीवस्य सङ्गो न स्यात्तत्राह – यथा गोत्वमित्यादि । स्वरूप सम्बन्धेन स्वसमवाय- संयोगादिसम्बन्धेन वा सर्वगतमपि गोत्वादि सास्नादिमध्यक्तावेवाभि- व्यक्तं तथा स्वप्रतिबिम्बाश्रया विद्या सम्बन्धित्वादिरूप सम्बन्धेन सर्वगतमपि जीवचैतन्यमविद्यादिष्वेव प्रतिबिम्बितत्वादिरूपाभिव्यक्तियुक्तमित्यर्थः । व्यापिनी — संयोग समवायादिना संबद्धा । अप्रकाशयन्ती – तमो- निवृत्तिद्वारा चाक्षुषविषयानकुर्वती । प्रकाशयति-तमोनिवृत्तिद्वारा चाक्षुषविषयं करोति । तद्वदिति । यथा गोत्वादिचाक्षुषे सास्नाद्यव- च्छिन्न एव चक्षुःसन्निकर्षः कारणम्, रूपचाक्षुषं प्रत्येव प्रभाषीना - 1 जगदुपादानब्रह्मणो-ख. जगदुपादानशुद्धब्रह्मणो - ग. दि-ख. ग. संयोगसंयुक्तसम-क. ख. ग. [प्रथमः 3. 2 प्रतिबिम्बवत्त्वा-