पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः तमोनिवृत्तिः कारणमिति प्रत्यक्षादिसिद्धम्, तथा जीवस्यान्यत्रासङ्गस्या- प्यविद्यामन आदिषु प्रतिबिम्बितत्वादिरूपः सङ्गः श्रुतिप्रत्यक्षादिरूपमान- सिद्धः । 'जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति' इति श्रुतिर्हि जीवस्या विद्या प्रतिबिम्बत्वमाह | ईशस्यापि प्रति- बिम्बत्वे आभासेनेति तृतीयाया अभेदोऽर्थः । बिम्बत्वे तु ज्ञाप्यत्वमर्थः । तादात्म्येन जीवस्यवापेक्षणीयतयेशस्यापि प्रतिबिम्बज्ञाप्यत्वात् । 'यथा ! होको ज्योतिरात्मा विवस्वानपो भिन्ना बहुबैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा' इति । 'रूपं रूपं प्रति रूपो बभूव तदस्य रूपं प्रतिचक्षणाय । स एष इह प्रविष्ट आनखा- ग्रेभ्य' इत्यादिश्रुतिरपि जीवस्याविद्या प्रतिबिम्बत्वमाह ॥ 117 यद्यपि भूतेन्द्रियादिकमपि क्षेत्रपदार्थः व्यवहाररूपाय जीवस्य प्रतिचक्षणाय यत्र प्रतिबिम्ब: सोऽपि वीप्सितरूपपदार्थः, क्षेत्रे आनखा- प्ररूपावधिप्रतियोगीन्यपि क्षेत्राणि पूर्वश्रुत्यैकवाक्यत्वानुरोधात्, तथापि भूतादिषु जीवस्य प्रतिबिम्ब रूपोपरागसत्त्वे सदा भानापत्तेस्तदन्यक्षेत्र- मविद्यादिरूपं प्रकृते गृह्यते । एवं 'आभास एव च ' । 'अत एव चोपमा सूर्यकादिवत्' इत्यादिसूत्राण्याप तथा बोधयन्ति । अज्ञोऽहं नेशः सुखी दुःखी इत्यादिप्रत्यक्षमप्यन्यथानुपपत्तिसहकृतं तद्बोधकम् । जीव- स्याविद्यामन आदावनुपादानस्य तादात्म्याभावेन प्रतिबिम्बरूपोपरागं विना तद्भानासम्भवात् । वार्तिकमतेऽविद्यादौ स्मरणानकीकारान्न तंत्र वृत्त्यावश्यकता । विवरणमते तु नावेदिषामित्यादिस्मरणार्थमविद्यादि- विषयिका वृत्तिरावश्यकी। जीवेशभेदस्यानादित्वे तु तत्र न प्रतिबिम्बोs- न्यथा सुषुप्तावपि तद्भानापत्तेः; किंतु तद्द्वोचरा सविकल्पक वृत्तिरहङ्कार- जन्या । न हि सुषुप्तयुत्तरमज्ञानमिव स स्मयेते; अभावस्य तस्य 1 स्याविद्यादि-ग. 2 क्षेत्रं - ग. -