पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः , नन्वियं प्रतिकर्मव्यवस्था नोपपद्यते, तथाहि स्व सभिकृष्टेन्द्रियजन्यस्वज्ञानात्पूर्व घटादेः सत्वे प्रतीतिमात्रशरीर- त्वव्याप्त काल्पनिकत्वायोगः । न च – काल्पनिकत्वविशेषः प्राति- मासिकत्वादिरेव तव्याप्तः ; गौरवात् । न च -प्रतीतिमात्रशरीर- त्वाभावेऽपि ज्ञाननिवर्त्यत्वादिनैव कल्पितत्वं भविष्यति ; प्रतीति मात्रशरीरत्वाभावेन ज्ञाननिवर्त्यत्वाभावस्याप्यापाद्यत्वात्, प्रतीते- विशेषः प्रयोजकस्तथा जीवस्य प्रतिबिम्बितत्वे वृत्तिरिति साम्यात्, यथा प्रभा तमोनिवृत्तिद्वारा रूपस्यैव भानव्यवहारे प्रयोजिका न त्वाकाशादेस्तथा स्वप्रतिबिम्बद्वारा जीवो मनस्तत्परिणामादावेव तत्प्र- योजको न घटादाविति साम्याच्च । गौरवादिति । कल्पितत्वं मिथ्यात्वं, प्रातीतिकत्वं चावरणशून्यस्वव्याप्यस्वकालकत्वम् । तयोश्च समशरीरत्वान्नैकस्यान्यापेक्षया गुरुत्वम्, प्रत्युत मिथ्यात्वमेव स्वान्यूनसत्ताकाभावप्रतियोगित्वा दिघटितत्वाद्गुरु । प्रातीतिकत्वस्य गुरु- त्वेऽपि स्वसमानाधिकरणव्याप्यतावच्छेदकान्तराघटितत्वात्तद किञ्चित्कर- मिति गौरवोक्तिः परस्य भ्रान्त्यैवेति ध्येयम् || 120 यत्तु कर्तृजन्यत्वव्याप्यं यथा न शरीरजन्यत्वम्; किंतु जन्य- त्वम्, तथा कल्पितत्वं स्वप्रतीतिव्याप्यस्वकालकत्वरूपस्त्र प्रतीतिमात्र- शरीरत्वस्य व्याप्यम्, न तूक्तप्रातीतिकत्वम् ; सति सम्भवेऽधिकवृत्तिता- वच्छेदकरूपेणैव व्याप्यत्वस्वीकारादिति, तन्न; दृष्टान्ते नीलधूम इव व्यर्थत्वेनैवाव्याप्यत्वात् । न्यूनवृत्तितावच्छेद करूपेण व्याप्यत्वास्वीकारे गन्धादेद्रव्यत्वादिव्याप्यत्वस्य तत्र तत्रोक्तस्योच्छेदापत्तेः । उक्तप्राती- तिकत्वस्य चिन्मात्रेऽपि सत्वेन कल्पितत्वाधिक वृतित्वाच ॥ नन्विन्द्रिय सन्निकर्ष विना प्रत्यक्षवृत्त्यसम्भवात्प्रपञ्चो न भाया- तत्राह — प्रतीतेरिति । भानस्येत्यर्थः । तावता प्रपञ्चः रात्योऽस्तु