पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 123 पदयोरेकार्थत्वेऽपि सकर्मका कर्मकत्वादिव्यवस्थादर्शनात्, न हि यजेते- त्यत्रेव यागेन भावनेत्यत्र यागकरणिका भावना प्रतीयते । एवं तृती- यादिविभक्तिकारकशब्दयोः कारकार्थकत्वेऽपि कारकशब्दार्थस्य तृतीया- अर्थकारकान्तरान्वयो न तु तृतीयाद्यर्थस्य । न हि कारकं कारकेण गच्छतीत्यादौ द्वितीया द्यर्थकारके कारकपदार्थस्येव तृतीयाद्यर्थन्व- योऽस्ति । करोतियतत्योरपि न भिन्नार्थकत्वम् ; कृताकृत विभागेनेत्यादि- कुसुमाञ्जलौ कृञो यत्नाद्यर्थत्वात्तेन चाख्यातविवरणात् तस्यापि यत्नोऽर्थ इत्यादिमणौ च तथोक्तत्वादिति, चेन्न; भावनादिपदस्य सिद्धावस्थभाव नादिबोधकत्वेनाख्यातादिसमानार्थत्वाभावात् कारकादि- पदस्य शक्तिविशिष्टबोधकत्वेन शक्तिमात्रवाचकतृतीयादि समानार्थत्वा- भावात् । उक्तं हि हरिणा- , 2 साध्यभावस्तु ' यस्तस्याः स आख्यातनिबन्धनः । सिद्धभावस्तु यस्तस्याः सन्यङादि निबन्धनः ॥ उक्तं च वार्तिके 'कृदन्तेन हि कारकविशिष्टं द्रव्यमुच्यते न तु बिभक्तधेव निष्कृष्टा शक्तिः । तथा च कारकं कारकेणेति स्यादि ' ति । किञ्चाख्यातपदेनैव कारकवाचिपदानां भट्टमते साकांक्षत्वात्स्वार्थप्रका रकविभक्तअर्थकारकविशेप्यकबोधे विभक्तेर्निराकांक्षत्वाच्च यागेन भाव- नेत्यादौ नोक्तान्वयबोधः । घटं यतत इत्यादौ तु न निराकांक्षत्वम्, गमनादौ यतिलक्षणाकाल तस्य साकांक्षत्वात् । एवं च यत्नमात्रस्य यत्पत्वे तत्र कर्मानन्वयः तस्य धात्वर्थतावच्छेदक फलत्वाभावा- देव, उक्तफलविशेष्यकस्वार्थप्रकारकबोध एव यत्यादिसम भिव्याहृतद्विती- यामाः साकांक्षत्वात् । अत एवेच्छत्यादेरपि विषयताप्रयोजकेच्छादि 1 ग. 4 कृदन्तेन न हि-ग. वस्थाभावना-क. 2 सध्या भावस्तु -ग. 3 साधनादि, सद्यनादि