पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

126 सव्याख्यायामद्वैतसिद्धौ [प्रथमः परिणतेरकर्मकत्वात्परिणतिविशेषभूताया वृत्तेः कथं सकर्मकत्व- मिति —–चाच्यम्; एकस्य हि सकर्मकत्वाकर्मकत्वे एकरूपेण विरुद्धे न तु रूपान्तरेणापि; मानाभावात्, यथा स्थितेरकर्मि- काया अप्यगमनत्वेन रूपेण सकर्मकत्वम् ; तथा परिणतित्वेन केन चिद्दष्ट इति ग्रामोऽयं केनचिद्वत इति वा शक्यं कर्मदर्शनेन ज्ञातुम्, शक्यते तु घटं करोतीत्यादौ निर्वयें, सोमं सुनोतीत्यादौ विकार्ये च तथा ज्ञातुमिति । किञ्च विशिष्टयत्नत्वं न शक्यतावच्छे- दकम्; येन गौरवम् । किंतु बीजादिनाऽकुरः कृत इत्यादौ करोतेः, रथो गच्छतीत्यादावाख्यातस्य चानुकूले निरूढलक्षणायाः क्लृप्तत्वात् । घटं करोतीत्यादौ पचतीत्यादौ च यत्नप्रतीतेस्तयोर्यत्नशक्तत्वात्सकर्म- कत्वानुरोधेन तत्र करोतेस्तत्समानार्थकत्वेनाख्यातस्य चानुकूलयलबोध- कत्वस्य संभवादिति दिक् । वृत्ते: वृत्त्यबच्छिन्नचितः । वृत्त्युप- हितरूपेण वृत्तिप्रयुक्ताज्ञानाभावोपहितरूपेण वा चितोऽप्युत्पत्तिस्वी- कारेण परिणामत्वं बोध्यम् | यथाश्रुतं तु वृत्तेर्मन्मते ज्ञानत्वाभावेन सकर्मकत्वे मानाभावादसङ्गतम् । स्थितेः गतिनिवृत्तेः । अगमनत्वेन गमनसंसर्गाभावत्वेन । यद्यपि ग्रामं न गच्छति ग्रामस्यागमनमित्यादौ गमनस्यैव सकर्मकत्वम्, तथापि गच्छ गच्छसि चेद्दूरमित्यादौ गभ्यर्थ- स्यागमनस्यापि सकर्मकत्वमक्षतम् । अभावविशेषणीभूते गमने विशे- षणीभूतोत्तरसंयोगान्वयित्वेन दूरदेशस्य कर्मत्वम् । यद्वा संयोगाभावा- नुकूलक्रियात्वमगमनत्वमिह विवक्षितं संयोगाभावरूपफलशालित्वेन तस्य कर्मत्वमिति बोध्यम् । यत्तु स्थितेरगमनत्वेनेव प्रकाशस्यापि ज्ञानत्वेन सकर्मकत्वम् । प्रकाशत्वं च न ज्ञानत्वम् ; किंतु तेजोज्ञानान्यतरत्वमिति,

विशिष्टं यत्नत्वं क.