पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

136 सव्याख्यायामद्वैतसिद्धौ [प्रथमः 2 वा तदाकारत्व रूपत्वात् । तदुभयं च स्वकारणाधीनस्त्र भावविशेषात् । रसादिसन्निकृष्ट करणजन्यत्वेऽपि न क्षतिः । रूपादि सन्निकृष्टकरणजन्य- त्वस्यैव चाक्षुषादौ रूपाद्याकारत्वस्य विशिष्य निर्वाच्यत्वेन रूपादि सन्निकर्षाणामेवान्यतमत्वेन निवेशात् । एवमसत्वापादकाज्ञाननिवर्त- कतावच्छेदकमपि तत्तद्विषय सन्निकृष्ट करणजन्यत्वानामन्यतममेव । जन्यत्वं च जन्यतावच्छेदकीभूतं तत्तद्विषयसन्निकृष्टकरणावशिष्टवृत्ति- ज्ञानत्वम् । तेन तस्य फलोपधानरूपत्वेन नाननुगमः । अवच्छेदकस्य तदाकारत्वघटितत्वेन च नात्माश्रयः | यम्य यस्य विषयस्य येन येन ज्ञानेनासाधारणव्यवहारः तत्तज्ज्ञानमात्रनिष्ठानां तत्तद्विषयीयसंबन्धा- नामन्यतममेव तत्तज्ज्ञानेषु तत्तद्विषयाकारकत्वमिति लक्षणयोः पर्यव- सिताऽर्थः । वस्तुतो 'वृत्तिज्ञानविषययोराकारताख्यः कश्चिदनिर्वाच्यः सम्बन्धोऽङ्गीक्रियते' इत्याचार्येरेव वक्ष्यमाणत्वात्स एवात्राभिप्रेतः । तम्य च तत्तत्कारण सन्निकर्षजन्यतावच्छेदकत्वेनोक्ता ज्ञाननिवर्तकता- बच्छेदकत्वेन च सिद्धिरिति ज्ञापयितुं द्वैविध्येनोक्तिरिति ध्येयम् || ननु – जन्यत्वस्य योग्यत्वस्य च फलोपधानरूपत्वेऽननुगमा- तत्म्वरूपयोग्यतावच्छेदकरूपत्वं' प्रकृते वाच्यम् तस्य चान्यस्या- परिचयादुक्तजन्यत्वयोग्यत्वे एव तथा वाच्ये इत्यात्माश्रयः, तत्राह - तदुभयं चेति । स्वकारणाधीनस्वभावविशेषात् । स्वकारणीभूतो यः तत्तद्विषयकरणसम्बन्धस्तद्घटित स्वभावविशेषनिरूप्यं तत्तद्विषयकरण- सम्बन्धविशिष्टज्ञानत्वमेव क्तनिवृत्तियोग्यतावच्छेद कमुक्तजन्यतावच्छेदकं च । ज्ञाने उक्तसम्बन्धस्य वैशिष्टयमव्यवहितोत्तरत्वादिरूपमिति भावः । द्वितीयव्याख्यायां तदुभयात्मक आकाराख्यः सम्बन्ध: स्ववृत्तिज्ञानरूपं 1 रूप्यादि-ग. " नानुगमः - क. ग. 3 करण-ग. 4 रूपत्वेना-ग. रूपवत्वं-ग.