पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिकर्मव्यवस्थोपपत्तिः कृतहान्याद्यापत्तिरिति - वाच्यम्; तदाप्यस्य कारणात्मनाव- स्थानात्, स्थूलसूक्ष्मसाधारणस्यान्तःकरणस्योपाधित्वात् । 'तदापीतेः संसारव्यपदेशात्' इत्यस्मिन् सूत्रे चायमर्थः स्पष्ट तरः । न च वृत्युपरक्तत्वं चैतन्यस्य न तत्प्रतिबिम्बितत्वम् ; दर्पणे मुखस्येवानुद्भूतरूपेऽन्तःकरणे शब्दान्यप्रतिबिम्बनोपाधि- ताया अचाक्षुषचैतन्यस्य प्रतिबिम्बितायाश्चायोगादिति - वाच्यम्; उद्भूतरूपवत्वं न प्रतिबिम्बितो पाधिताप्रयोजकम् ; अस्वच्छेऽपि लोष्टादौ प्रतिबिम्बापत्ते:; किन्तु स्वच्छत्वम्, 'तमेव विदित्वाऽतिमृत्युमेति अव्यवहार्यमलक्षणं प्रपञ्चोपशमं शिव- मद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः' इत्यादिश्रुतिविरोधापत्तेः । घाप्रत्ययस्तु विषयरूपप्रकार|र्थः । नहि विशेषणरूपप्रकारे घा इति 'नियमः । निवर्त्याज्ञानाद्यविषयकत्वं तु ज्ञानेऽपेक्षत एव, अन्यथाऽह " मित्यादीनामपि निवर्तकतापत्तरित्यादि विवचितमेव मिथ्यात्वहेतुर्विवचने । समूहालम्बनं तु घटाज्ञाननिवर्तकम् निवत्यज्ञानतत्कार्याविषयकत्व- स्यैव तदनतिरिक्तविषयकत्वरूपत्वात् । विजातीयत्वेन मूलाज्ञाननिवर्त- कत्वाच्चरमवृत्तिरेव तथेत्यादिकमप्यसकृदुक्तम् । कारणात्मना कार- णीभूताविद्यागत संस्कारात्मना । एतेनाविद्यात्मनाइवस्थाने अविद्यैवोपाधि- रित्यागतमिति-–परास्तम्; यथा हि तार्किकादिमते सूक्ष्मरूपं मनः सुषुप्तौ तिष्ठति, तथा मन्मतेऽपि ज्ञानेच्छादिस्थूला वस्थाप्रच्यवात् । ननु वृत्त: प्रकाशकजीवचिदुपरागार्थकत्वपक्षे वृत्त्या चितो न तादात्म्यं सम्बन्धो जीवस्यानुपादानत्वात्, नापि प्रतिबिम्बसम्बन्ध इत्याद्याशङ्कय निरस्यति – न च वृत्तीत्यादि । उद्धृतरूपहीनेऽपि गुहाकाशादौ मुखाद्यवच्छिन्नशब्दादिप्रतिबिम्बोपाधित्वात् । शब्दान्येति । स्वच्छत्वं - 1 प्रतिबिम्बनो. 2 अन्यथाहमज़ इत्या-ग. परिच्छेदः] 139