पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

140 सक्याख्यायामद्वैतसिद्धी [ प्रथमः वृत्तेश्वास्त्येव ; - तच्च प्रकाशस्वभावत्वेन मनसस्तत्परिणामभूताया त्रिगुणात्मकस्याप्यज्ञानस्य स्वच्छसत्वात्मकताया अपि सत्वेन तत्रापि प्रतिबिम्बितोपाधिताया : सत्वात् । नापि चाक्षुषत्वं प्रतिविम्बितत्वप्रयोजकम्; अचाक्षुषस्याप्याकाशादेः प्रतिबि- म्बितत्वदर्शनात् । ननु चाक्षुषवृत्युपारूढचितः कथं रूपमात्र- प्रतिबिम्बोपाधितायोग्यत्वम् । प्रकाशस्वभावत्वेन उक्तोपाधिता.. विरोधिरूपहीनत्वेंन । तच्च फलबलकल्प्यम् । न हि प्रतिबिम्बभ्रम- मात्रेऽनुगतरूपेणोपाधीनां हेतुत्वमस्ति; किंतु दृष्टतत्तत्प्रतिबिम्बभ्रमे तत्तदुपाधीनां हेतुत्वमिति भावः । उक्तं हि सिद्धान्तबिन्दौ – ' विभ्रम- हेतूनां विचित्रत्वान्न प्रतिबिम्बानुपपत्तिरिति । मन्त्रात्मकताया अपी- त्यपिना सत्वात्मकत्वमपि प्रतिबिम्बोपाधितायां न प्रयोजकम् । अतो जीवेशभेदाविद्याचित्सम्बन्धादिष्वनाविद्यकेष्वपि प्रतिबिम्बोपाधितासम्भ- वेन प्रकाश्यत्वसम्भव इति ध्येयम् । दर्शनादित्यनेन यत्र प्रति- बिम्बोपाधिता बिम्बत्वं च दृश्यते तत्र नापलपितुं शक्यते; अन्यथा सर्वत्रैवानुभवापलापप्रसङ्गात् । एवं चाकाशस्य बिम्बत्वं चेद्दष्टं तदा नापलापार्हम् । अथादृष्टम् तथाप्यविद्यान्तःकरणादौ चित्प्रतिबिम्बं पूर्वोक्तरीत्या जीवेशावाभासेन करोति, इत्यादिश्रुतिप्रत्यक्षादिमानदृष्ट- त्वादविद्यादेरुद्भुतरूपाभांवऽपि चितोऽचाक्षुषत्वेऽपि च नापलापार्हमिति सूचितम् । एतेनोद्भतरूपान्यस्वच्छत्वे मानाभावः, आकाशम्य तु प्रतिबिम्बं नास्त्येव ; साम्रप्रभामण्डलादेव प्रतिबिम्बे आकाशीयत्व- भ्रमात्, अन्यथा वाय्वांदरपि प्रतिबिम्बापत्तेरित्यादिमूर्खप्रलापोऽपास्तः । वृत्तेश्चिदुपरागार्थत्वपक्षे प्रकारान्तरेण दोषं शङ्कते– ननु चाक्षुषेति । कथमिति । स्वप्रतिबिम्बवद्वृत्तिसंयुक्तसमवायरूपस्योपरागस्य रूप इब . । प्रतिबिम्ब नोपाधितायाः . ?