पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकर्मव्यवस्थोपपत्तिः 145 2 त्वात् । स्वप्नेनेत्यायुक्तवाक्ये तु स्वमेन सह शारीरं प्रहत्य विलाप्य सुप्तान् विशेषज्ञानशून्यान् जीवानभि लक्षीकृत्य हिरण्मयः स्वप्रकाशः साक्षी चाकशीति कासते पुनः कर्मोडोषे शुक्रमिन्द्रियगणमादाय स्थानमेतीत्यर्थाज्जीव एवं प्रकृतः । अत एव तदेते श्लोका भवन्ति स्वप्नेन शारीरमित्यादिश्रुतिर्भाष्ये इत्थं व्याख्याता | ध्यायतीव लेला- यतीवेत्यायुक्तार्थे एते श्लोकाः, स्वप्नेन स्वप्नभावेन शारीरं शरीरमा प्रहत्य निश्चेष्टीकृत्य स्वयमसुप्तोऽलुप्तदृगादिशक्तित्वात्सुप्तान् वासना कारो- द्भूतान् सर्वान् भावानभिचाकशीति, शुक्रं ज्योतिष्मदिन्द्रियगणमादाय पुनः कर्मणे एति जागरितस्थानं हिरण्मयश्चित्स्वरूप एक एव जाग्रत्स्वमपरलोकादीन् हन्ति गच्छतीत्येकहंसः प्राणेन कुलायं देहमवरं बीभत्सं रक्षन् स्वयं कुलायाद्वाहश्चरित्वा तदनभिमानात् ईयते गच्छति यत्र कामं यत्र विषय कामना तं वासनारूपेणोद्भूतं स्वमान्ते स्वप्नस्थाने उच्चाबचमुत्कृष्टनिकृष्टं देवतिर्यगादिभावं ईयमानो गच्छन् देवो द्योत- नवान् बहूनि रूपाणि वासनोद्भूतानि कुरुते, उत अपि स्त्रीभिः सह मोदमान इव जक्षत् हसन् वयस्यैरिव उतेव भयानि व्याघ्रादीनि पश्यन् आराममाक्रीडामस्यात्मनो वासनोद्भूतां पश्यन्ति सर्वे, तं तु न पश्यति कोऽपीत्यादि । तदेतादृश श्रुतिसन्दर्भस्येश्वरपरतां ब्रुवाणो देवानांप्रियः शोभते । तस्माज्जीव एव प्रकृतः उक्तवाक्येषु । अन्यथा सुप्त इति सुप्तेरीशे निषेधो व्यर्थोऽपसकत्वात् जीव एव तत्प्रसक्तेः । आदायेत्यनेनाभिमान एव वाच्यः, सम्बन्धमात्रस्य शुक्रे पूर्वमपि सत्वात्, तथा च तस्येशे सङ्गत्यभावात् स्थाने तत्तद्गोलके पूर्वमपीशस्य सत्वेन स्थान- मेतीत्यस्याप्यसङ्गतेश्च । जीवस्य तु मनउपाधिकस्य स्थाने पूर्वमसस्वा- चत्र तत्सङ्गतत्वात् । सर्वाणि भूतानि मत्स्थानीति तूपपादितमिति ध्येयम् ॥ . 19 , 1 भोक्तारं प्रहत्य - ग. 2 काशते-ग. 8 सूक्तिशि-ग. ADVAITA. VOL. II 10