पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

146 संव्याख्यायामद्वैतसिद्धो [ प्रथमः जीवचैतन्यस्याधिष्ठानचैतन्यस्य - वृत्तेः पूर्वमप्यस्त्येव, अन्यस्तूपरागो न दृश्यत्वे तन्त्रमिति किं तदर्थया वृत्येति चेन्न; वाऽभेदाभिव्यक्तथर्थत्वादृत्तेः । अन्यथा मयेदं विदितमिति सम्बन्धावभासो न स्यात् । ननु – जीवचैतन्यस्यासङ्गत्वे ब्रह्म- चैतम्यं सुतरामसङ्गम् ; तथाच मायोपाधिकविषयोपरागत्वात् स्वतः सार्वज्ञथं न स्यात्, न च – ब्रह्म सर्वोपादानत्वादुपाधि विनैव स्वस्वरूपवत्स्वाभिन्नं जगदवभासयतीति – वाच्यम् ; उपादानत्वं न तावाद्वशिष्टनिष्ठं परिणामित्वम् ; आध्यासिक- संबन्धस्यातन्त्रतापत्तेः, अनाद्यविद्यादिकं प्रति तदभावाच्च । नापि शुद्धनिष्ठमधिष्ठानत्वम् शुद्धस्य सर्वज्ञत्वसर्वशक्तित्वादेर- भावादिति – चेन; ब्रह्मणोऽसङ्गत्वेऽपि सर्वेषां तत्राध्यासेन मायोपाधि विनैव तस्य सर्वप्रकाश (क) तथा सार्वज्ञथोपपत्तेः । न च – शुद्धनिष्ठमधिष्ठानत्वं नोपादानत्वम्, सार्वज्ञयाभावादि- - - अन्यः स्वप्रतिबिम्बवद्वत्तेर्विषयत्वसंश्लेषोभयरूपः । दृश्यत्वे अध्यस्ततादात्म्यरूपे ढक्सम्बन्धे । यद्यपि जीवा भिन्नब्रह्मचित आध्या- सिकतादात्म्यरूपं दृश्यत्वं वृत्तिपूर्वमस्ति तथापि तदर्थं न वृत्तिः ; किंतु मयेदं विदितमिति व्यवहारोपयुक्तोपरागायेत्या शयेनाह – न जीवेति । मायोपाधिकेति । मायावृत्तिरूपोपाधिघटितेत्यर्थः । अधिष्ठानत्वम् कल्पितप्रतियोगिकमकल्पितनिष्ठं तादात्म्यम् । असङ्गत्वेऽपीति । यादृशः सङ्गः स्वप्रतिबिम्ब रूपो जीवस्याविद्यादौ तादृशस्य ब्रह्मघटा- द्योरभावेऽपीत्यर्थः । अभ्यासेन अध्यस्ततादात्म्येन | नोपादानत्वम् न सर्वावभासकताप्रयोजकोपादानत्वशब्दार्थः । शुद्धस्येति शेषः । 1 चाऽभे.