परिच्छेदः] 149 इव तदावरणशक्तेरयोगात्, त्वयानभ्युपगतत्वाच्च, जडावारी- ष्टात्मानं प्रति तदभ्युपगमे च विशेषणानावारकृविशिष्टावारक- शक्तयभिभवस्य विशेष्यावारकशक्तयभिभवं विनाऽयोगेन शुक्तथा- कारवृत्यैव शुद्धात्मप्रकाशापातादिति – चेन्न; अनवबोधात् । न ह्यविद्याकल्पितेऽवच्छिन्ने अस्माभिरविद्या वा तच्छक्तिर्वा- भ्युपेयते, किंतु चैतन्यमात्र एव; तस्मिंस्तु सर्व जडमध्यस्तमस्ती- त्येकाश्रयाश्रितत्वसम्बन्ध जडावच्छिन्नचैतन्यमावृतमिति व्यप- देश: । घटाद्याकारवृत्त्या तु तदधिष्ठानचैतन्याभिव्यक्तौ तद - वच्छेदेनैव तनिष्ठावरणाभिभवो जायत इति न शुद्धात्मप्रकाशा- पत्तिः । तदुक्तं संक्षेपशारीरके- प्रतिकर्मव्यवस्थोपपत्तिः न ‘आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः' । प्रभादिद्रव्यस्य तत्तदवयवोत्पत्तिक्रमेणोत्पत्तिस्वीकारेऽनुभवविरोधान्माना- भावाच्च । उक्तं हि माष्यादौ - ' द्रव्यारम्भोऽपि न सर्वत्रारम्भकसंयोगादे- वेति शेषः । आवरणशक्तेः तूलाज्ञानस्य | चैतन्याभिव्यक्ताविति । प्रयोज्यायामिति शेषः । तथाच यद्यपि शुद्धनिष्ठमावरणमात्रम् ; घटादेरुपा- धित्वेनाश्रयकोटावप्रवेशात्, तथापि घटाद्या कारवृत्त्या क्रियमाणोऽभिभवो घटाद्यवच्छिन्न एव अभिभवस्याभिभावकावच्छेदकावच्छिन्नत्वं हि मण्यादेरुत्तेजकाधी नाभिभवे दृष्टम् । अतोऽनवच्छिन्न स्या' वरणाभिभवस्या- पत्तिः पर्यवसिता, शुद्धप्रकाशापत्तिर्नेत्यर्थः । आवरणाभिभवो हि यद्यज्ञा- नस्य नाशस्तदा स वृत्तिस्वरूपो वृत्तिप्रयुक्तोऽतिरिक्तो वा; उभयथापि प्रत्यक्षघटादिवृत्तेर्घटाद्यावरणस्य च घटाद्यवच्छिन्नत्वात्सोऽपि तथा । यदि तु वृत्त्यभावविशिष्टो योऽज्ञानसम्बन्धस्तदभावोऽभिमवो न नाश- 1 1 अवच्छिन्नस्य.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६७८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति