पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

152 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः शुक्तेः कदाप्यप्रकाशो न स्यात्, अन्त्ये वृत्तिकालेऽपि प्रकाशो न स्यात्, एकस्यावरणस्य निवृत्तावप्यावरणान्तरानिवृत्तेरिति- चेन; एकया वृत्त्या एकाज्ञाननाशेऽपि तयैवावारणान्तराणां प्रतिरुद्धत्वात्, यावत्सा तिष्ठति तावत्प्रकाशः तस्यामपगतायां पुनरप्रकाश चोपपद्यते; अज्ञानस्य ज्ञानप्रागभावस्थानीयत्वात् । यथा तवैकं ज्ञानमेकमेव प्रागभावं नाशयति, तन्नाशरूपेणोदया- त्प्रागभावान्तरनिबन्धनमज्ञातत्वादिव्यवहारं च प्रतिबध्नाति, तथा ममाप्येकं ज्ञानमेकमेवाज्ञानं निवर्तयति, अज्ञानान्तरनिष- भावः । नाशरूपेणेति । ज्ञानमेव तत्प्रागभावनाशः । इत्थं च नाशय- तीति भाक्तमिति भावः । निवर्तयतीति । पूर्ववन्निवृत्तेर्ज्ञानातिरिक्तत्वे यथाश्रुतम् । वस्तुतो ज्ञानानतिरेकेऽपि नाशत्वज्ञानत्वाभ्यां भेदेन प्रयोज्यप्रयोजकभावस्य श्रुत्यादिसिद्धस्य पूर्वमुक्तत्वाद्यथाश्रुतं रम्यमिति ध्येयम् । प्रागभावान्तरनिबन्धनमित्यादि । अज्ञातो मे घट इति प्रत्यक्षं परमते तत्पुरुषीय ज्ञानाविषयक वृत्तित्वविशिष्टं तत्पुरुषीयज्ञानस्य संसर्गाभावं गाहते। तत्र यथा तत्पुरुषीय किञ्चिज्ज्ञानविषये घटे तादृशा- भावस्य विषयविषया सादृशप्रत्यक्षकारणस्याभावात्ताढशज्ञानरूपात्तादृश- • प्रत्यक्षाभाव तथा मन्मते वृत्तिज्ञानमे काज्ञाननिवर्तकमन्याज्ञाननिव- न्धनस्य घटो न भातीत्यादिव्यवहारस्यानुत्पत्तौ प्रयोजकम् । तत्वं च तादृशव्यवहारं प्रति घटाकारवृत्तेः प्रतिबन्धकत्वात् वृत्तिविषयत्वा- भावकालोपहित एव घटे आवृतत्वस्वीकारात्, वृत्त्यविषयत्वविशिष्टं यदज्ञानं तदभाववच्चितो भानत्वस्वीकारेण तस्या वृत्तिकाले घटादौ सत्वाद्वा, सर्वथापि तादृशव्यवहाररूपकार्यानुत्पत्तिव्याप्यार्थकं प्रति- बन्धकपदं वृत्तावस्मदीयैः प्रयुज्यमानं न विरुद्धमिति प्रघट्टकार्थः । विशिष्टतत्पुरुषीय-फ. ग.