पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

158 सव्याख्यायांमद्वैतसिद्धौ [प्रथमः निष्कर्ष:- यद्यपि विषयप्रकाशकं विषयाधिष्ठानभूतं प्रमेयचैतन्यम्, अन्तःकरणावच्छिन्नचैतन्यं तु प्रमातृ, अन्तःकरणवृत्त्यवच्छिन्न- चैतन्यं तु प्रमाणम् ; तथापि यदीयान्तःकरणवृत्त्या विषयपर्यन्तं चक्षुरादिद्वारा निस्सृतया यत्प्रकाशकं चैतन्यं यत्प्रमातृचैतन्या- १ घटादेरधिष्ठानी भूतं ब्रह्मचैतन्यमेव प्रकाशकम् प्रकाशस्य साक्षात्स्व- सम्बद्धभासकत्वस्यालोकादौ दृष्टत्वात् । वृत्तिद्वारा तादृशचैतन्ये जीव- स्योपरागं विना ममेदं भातीत्यादिव्यवहाराभावाज्जीवस्य प्रकाशकत्वं पूर्वमुक्तम्, तत्पर्यालोचनाचोक्तपक्षेऽपि वृत्त्यादिघटितसम्बन्धेन जीवो- परक्तमधिष्ठानचैतन्यं प्रकाश कमिति पर्यवसितम् । स्वप्रतिबिम्बवत्सु - खादितादात्म्येन जीवोपरक्तमधिष्ठानचैतन्यं सुखादौ भासकम् । एवं चोक्तपक्षे वृत्तेरावरणाभिभवार्थत्वपक्षे चापि प्रमेयचैतन्यस्य प्रमातृचैत- न्योपरागनिष्पादनान्मयेदं साक्षात्क्रयत इत्यादिव्यवहारनिर्वाहिका वृत्ति- रिति, पूर्वोक्तपक्षत्रयेपि प्रमातृप्रमे चितोरुप गार्थत्वं वृत्तरित्यादि पूर्वा- नुक्तं प्रकटयति – यद्यपीत्यादि । प्रमेयचैतन्यमिति । चैतन्य - स्यैवाज्ञा तत्वान्मुख्यं प्रमाविषयत्वम ज्ञा तत्वावच्छेदकत्वाद्धटादेरिति भावः प्रमात्रिति । मनोविशिष्टचैतन्यस्य चक्षुरादिप्रेरणद्वारकवृत्त्यवच्छिन्न- विषयचैतन्यरूपप्रमानिष्पादकत्वेन प्रमातृत्वमिति भावः । प्रमाणमिति । वृत्तेविषय संश्लेषं प्रत्युपधायकत्वेन तज्जनकक्रियादिजनकत्वेन वा वृत्ति- संश्लिष्टविषयचिद्रूपां प्रमां प्रति वृत्त्यवच्छिन्न चैतन्यं करणमिति भावः । केवलवृत्तेर्जडत्वेन चिदुपरक्ता विषयसंश्लिष्टा वृत्तिः प्रमा । तत्र च चिदुपरक्तैव वृतिरुपधायिकोक्तजनकत्ववती वंति सैव प्रमाणम् । केवलस्य मनसो जडत्वेन केवलचितश्च निर्व्यापारत्वेन प्रमां प्रति स्वातन्त्र्याभावाच्चि- दुपरक्तं मनः प्रमात्रिति त्रयाणां चिद्घटितत्व मावश्यकमिति भावः । तथापि 1 प्रमेयचैतन्य - ग.