पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परि॰छेदः]- प्रतिकर्मव्यवस्थोषपातिः 161 . वापत्या प्रमात्रवच्छिन्नमसत्वावरणमात्रं निवर्तते; तावन्मात्रस्य वृत्यवच्छन्नत्वात् । इदमेव सुषुप्तिव्यावृत्तिशब्देन विवरणाचार्यै- र्व्याख्यातम् | विषयावच्छिन्नाभानावरणतत्कार्यसद्भावेपि प्रमात्र वच्छिन्नासत्वावरणनिवृत्त्याऽनुमानादौ व्यवहारोपपत्तिः । अत एव जानाम्यहं पर्वते वन्हिरस्तीति, स तु कीडश इति मे न भातीत्यादिव्यवहारः । त्रयाणामेकलोलीभावेऽपरोक्षत्वम् । द्वयो- रेकलोलीभावे तु परोक्षत्वमिति न सङ्करः । वृत्तेश्च विषयेण चितो वृत्यबच्छिन्नत्वेन प्रमाणचिद्रूपत्वादाश्रयत्वन प्रमातारी विशेषण- त्वम्, उक्तफलप्रयोजक' वृत्त्यवच्छिन्नत्वेनोक्तफलप्रयोजकत्वं च । उक्त फले चाधेयतया घटादेर्विशेषणत्वम्, सुखं साक्षात्करोमीत्यादौ त्वज्ञा- .नविषयतानवच्छेदकत्वसमानाधिकरण चिद्रूपं फलं प्रति मनउपहितं चैतन्यं प्रयोजकमेव ; उक्तसामानाधिकरण्यघटकं सुखादिकं प्रत्यधि- ष्ठानत्वात्सुखादिपरिणामिकारणमनोवच्छिन्नत्वाद्वा, तादृशचैतन्यम्य च सुखायुपहितरूपेण प्रमात्राश्रितत्वमविरुद्धम् । अविद्यां साक्षात्करोमी- त्यादावपि नानुपपत्तिः; अविद्यादिनिष्ठेऽज्ञानविषयतानवच्छेदकत्वेऽ- नुपहितचिद्रूपेण चैतन्यस्याधिष्ठानत्वादिना प्रयोजकत्वात्तादृशचितः प्रमातारी तादात्म्येन विशेषणत्वसम्भवाच्च । अथवा आश्रयस्याश्रितं प्रति क्षेमसाधारणजनकतया स्वातन्त्र्यरूपकर्तृत्वमेवाख्यातेनोल्लिख्यते स्फुरतीत्यादाविति भावः ॥ जानाम्यहमित्यादि । अज्ञानाभावाश्रयचिज्ज्ञानं वन्हि जाना- मीत्यादौ वन्ह्यादिर्नि' रूपितत्व संबन्धेनाज्ञानावशेषणम् | सुखं जानामी- त्यादौ सुखादिनिरूपितमज्ञानं पुरुषान्तर प्रसिद्धम् | प्रमातरि चावच्छे- दकतासंबन्धेन ज्ञानं ज्ञानावच्छेदकत्वं वा विशेषणम् । असत्वापादका- 1 त्यादौ तूक्तफलप्रयोजक–क्त. 2 द्धमिति क. ग. ADVAITA. VoL. II " वह्वथादिनि- क. ग. i1