पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. प्रतिकूलतर्कानिराकरणम् अथ प्रतिकूलतर्कनिराकरणम्. ननु – मिथ्यात्वानुमानं प्रतिकूलतर्कपराहतम् । तथाहि विश्वं यदि कल्पितं स्यात्, साधिष्ठानं स्यात्, न चैवम् ; सामान्यतो ज्ञातत्वे सत्यज्ञातविशेषवत्वस्याधिष्ठानत्वप्रयोजकस्य निर्विशेषे निस्सामान्ये च ब्रह्मण्यसम्भवादिति – चेन्न; स्वरूपेण ज्ञातत्वे सति विशेषेणाज्ञातत्वस्याधिष्ठानत्वप्रयोजकत्वेन ज्ञात विशेष- वत्वस्याप्रयोजकत्वात् । पुरुषो न वेति संशयधर्मिणः स्थाणो- रप्यन्यत्र ज्ञातस्थाणुत्वरूपविशेषवत्वात्तत्राज्ञातविशेषवत्वमपि न प्रयोजकम्; विशेषवत्वेनाज्ञातत्वस्यैव लघुत्वेन प्रयोजकत्वात् । परिच्छेदः] तर्कैः सारस्वतै रत्नैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय प्रतिकर्मव्यवस्थितिः ॥ इति प्रतिकर्मव्यवस्था ॥ 165 अथ प्रतिकूलतर्कनिराकरणम्. स्वरूपेण ज्ञातत्वे सति विशेषेणाज्ञातत्वस्येति । ज्ञातत्वे सत्य- ज्ञातत्वस्येत्यर्थः । ज्ञातस्याप्यज्ञातत्वं न विरुध्यते; ज्ञातसामान्य रूपस्याप्यज्ञातविशेषरूप कत्वसम्भवादित्यभिप्रेत्य स्वरूपेण विशेषेणत्युपा- त्तम् । यद्यपि सद्पपरिपूर्णानन्दादिरूपयोर्न न्यूनाधिकवृत्तित्वलक्षणः सामान्यविशेषभावः, तथापि भ्रमकाले भासमानं सामान्य बाधकाले भासमानं विशेषरूपमिति बोध्यम् । तत्राज्ञातेति । यद्यपि स्थाणुत्व मन्यत्र ज्ञातमपि स्थाणावज्ञातमित्यज्ञातविशेषवत्वमक्षतम् तथापि भ्रम- घर्मिणि ज्ञातविशेस्यान्यत्राज्ञातत्वसम्भवात्तदानीं च भ्रमानुत्पत्तस्तत्राज्ञाते- 1 त्वेनाशात. ,