पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/६९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

166 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः न तथाच निस्सामान्ये निर्विशेषे च ब्रह्मणि स्वप्रकाशत्वेन ज्ञानात् परिपूर्णत्वानन्दत्वादिना चाज्ञानादधिष्ठानत्वमुपपन्नम् । वस्तुतस्तु कल्पितसामान्यविशेषवत्वं ब्रह्मण्यपि सुलभमेव; अकल्पित- सामान्यविशेषवत्वं चाप्रसिद्धम् । नच तत्कल्पनेऽन्योन्याश्रयः; त्यवश्यं वांच्यम्, तथाच गौरवमिति भावः । स्वप्रकाशत्वेन ज्ञानात् स्वप्रकाशचिद्रूपज्ञानात् परिपूर्णानन्दत्वादिना चाज्ञानात् परिपूर्णानन्द- स्वरूपविषयका ज्ञानाच्च । उपपन्नमिति । यद्यप्युक्तरूपद्वयं वस्तुत एकं तथापि तयोराविद्यकालादिभेदस्य स्वीकारेण पूर्णानन्दादिरूपमेवावृतम् न तु चिद्रूपम् । अत एव पूर्णानन्दो नास्ति न भातीत्यादिव्यवहारो न तु चिद्रूपं नास्ति न भातीतिभावः । एवमज्ञातत्वस्यैवाधिष्ठानत्वे प्रयोजकत्वं, रूप्यादिभ्रमे शुक्तयाद्यवच्छेदेनेव जगद्धमे किञ्चिदवच्छेदं विनैव चिदज्ञाता सत्यधिष्ठानमित्युपपाद्य ' । यद्यज्ञान विषयविशेषवत्वं प्रयोजकम्, तथापि न क्षतिरित्याशयेनाह – वस्तुतस्त्वित्यादि । अथाज्ञान विषयविशेष- वत्त्रस्य नाधिष्ठानत्वे प्रयोजकत्वम् ; रूप्यादिश्रमस्थले तदभावात्, पूर्णानन्दादिरूपस्य तादृशविशेषवत्वस्य नेदं रूप्यमित्यादिबाधकालेपि सत्त्वात्, किं त्वज्ञानविषयतावच्छेदक विशेषावच्छिन्नत्वस्य प्रयोजकत्वम् ; तब शुरूया थवच्छिन्नत्वरूपं रूप्यादिभ्रमेष्वेवास्ति, न तु गगनाद्य- ध्यासस्थले इति – चेन्न; यस्य भ्रमस्योपादानाज्ञानविषयता किञ्चि- दबच्छिन्ना तत्रोक्तावच्छिन्नत्वस्य प्रयोजकत्वेऽपि, यत्र साऽनवच्छिन्ना- तत्र तस्य तत्वासंभवेनाज्ञान विषयविशेषवत्त्वस्यैव प्रयोजकत्वात् । एवं च अमान्तरे क्लृप्तत्वाभावेन गगनाध्यासेऽपि न तत्कल्पनं युक्तम् ; किं त्वज्ञान स्वरूपकत्वमेवाधिष्ठानत्वे पूर्वोक्तं प्रयोजकं युक्तमित्यावेदायि तुमाह -- सुलभमिति | कल्पितसामान्येति । संसृष्टतया कल्पितत्व- 1त्युपपाद्या – ग. 2 अथाज्ञात - ग. 8 वाप्रयोजक – क. 4 अज्ञात. ग. - --