पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकूलतर्कनिस्रकरणम् 191 आत्माभ्यस्तगौरत्वादेः शुक्तथाद्यभ्यस्तरूप्यादेश तत्वत्साक्षात्कार- निवर्त्यत्वदर्शनेन प्रपञ्चस्यापि ब्रह्मण्यध्यस्ततया तत्साक्षात्कार- निवर्त्यत्वस्यावश्यकत्वात् । नहि शुक्तयाद्यध्यस्तं रूप्यादि

चाग्रिमक्षणेऽवश्यं यद्यतिरेक इत्येतन्मात्रं हि नः तत्पटादेरपि दण्डादि- साध्यतापत्तेः, दण्डादिसत्वासत्वयोः काचिद्देशेऽग्रिमक्षणावच्छेदेन पटा- देरवश्यं सत्वाऽसत्व संभवात्, किंतु यद्वद्देशावच्छेदेन यद्वत्क्षणस्योत्तर- क्षणे तदवच्छेदेनावश्यं यत्सत्वं यद्यतिरेकस्याश्रय देशावच्छेदेन तद्वत्क्षण- स्योत्तरक्षणे तदवच्छेदेन यद्यतिरेकस्तस्य तत्साध्यत्वम् । अतस्तत्वज्ञान व्यतिरेकस्याश्रयदेशावच्छेदेन तद्वत्क्षणस्योत्तरक्षणे तादृशदेशावच्छेदेन द्वैतनिवृत्तित्वविशिष्टस्य ब्रह्मणः साध्यतावच्छेदकतादात्म्यसंबन्धेन 'नानुपपत्तिः । नहि तत्वज्ञानशून्य पुरुषावच्छेदेन कदापि द्वैतनिवृत्तिधीर- स्तीति ध्येयम् || · तत्तत्साक्षात्कारनिवर्त्यत्वदर्शनेनोत । गौरत्वादावात्मनो निदिध्यासनजन्यसाक्षात्कारनिवर्त्यत्वस्य रूप्यादौ शुक्तधादेर्निदिध्यास- नजन्यसाक्षात्कारानवर्त्यत्वस्य च दर्शनेनेत्यर्थः । विपरीतभावनासत्वे शुक्तधादावपि निदिध्यासनापेक्षेति बोध्यम् । तथाच यद्यन्निदिध्यासन- जन्यसाक्षात्कारनिवर्त्य तत्तत्र न कल्पितमिति व्याप्तिने॑ति भावः । यत्तु यद्यत्र कल्पितं तत्तन्निदिध्यासनाजन्यसाक्षात्कारनिवर्त्य नेति ज्यातिरिति न दोष इति – ततुच्छम्; उक्तस्थले एवं व्याभिचार नुद्धारात् । नन्वधिष्ठानसाक्षात्कारं विनाप्युक्तसाक्षात्काराहुरितस्येव. प्रपञ्चस्यापि ब्रह्मसाक्षात्कारान्निवृत्तिरस्तु, किं ब्रह्मणि प्रपञ्चस्य कल्पि- - एवं-क. ख.