पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

194 सव्याख्यायामद्वैतसिद्धौ [प्रथमः तदुद्देशनैव विषेये; अन्यथा परोक्षज्ञानस्य श्रवणमनने प्रत्युद्देश्यतया समर्पणाय दृशेसवृत्तिः स्यात् । सकृत्प्रतिसंहितदृशिनार्थद्वयबोधना- सम्मवादिति भावः ॥ वस्तुतस्तु "श्रोतव्यो मन्तव्यो निदिध्यासितव्य" इति पृथगुपासानां श्रवणादीनां विषेयानां भेदाद्वाक्यभेदावश्यकत्वादुक्ता- वृत्तिर्न दोषाय । विविदिषन्ति यज्ञेनेत्यादौ तु एकेनैवाख्यातेनोपात्ता नाना भावना विधेया इति वाक्याभेदः । अथ सम्भवत्येकवाक्यत्वे वाक्य- भेदायोगात्, “ मनननिदिध्यासनाभ्यां फलोपकार्यकाभ्यां सहितं श्रवणं नामाङ्गी विधीयत" इति विवरणायुक्तेश्च त्रितयविशिष्टा एकैव भावना विधेया; मनननिदिध्यासनसहितेन श्रवणेन पश्येदिति विधि- विपरिणामसंभवादित्युच्येत तथापि पत्नयवेक्षितमाज्यमित्यादावीक्षतेश्चा- क्षुषवाचकत्वनिर्णयात् दृशिर् प्रेक्षण इति स्मृत्या दृशेर्वीक्षणवाचकत्वात्सा - क्षात्कारे दृशिर्लाक्षणिक एव वाच्य इति निश्चयात्मकज्ञानेऽपि लाक्षणि- कत्वसम्भवात्तदुद्देशेन तादृशश्रवणविधौ को दोषः । प्रमेयगतासम्भाव- नाया विपरीतभावनायाश्च निवृत्तिद्वारा तादृशफले मनननिदिध्यासनयो- रुपकारकत्वसम्भवात् । अतएव त्रयाणां प्राधान्येन विधावपि न क्षतिः ; निश्चयत्वेनैव त्रितयफलत्वसम्भवात् । नहि निदिध्यासनस्य साक्षा- त्कारो दृष्टं फलम् ; नित्यपरोक्षविषये तदसम्भवात्, कचिदेव कामिन्या- दिसाक्षात्कारे निदिध्यासनसहितोत्कटरागादिदोषविधया परं कारणम्, किंतु विपरीतसंस्कारनिवृत्तिद्वारा निश्चयः । अतएव "मनननिदि- ध्यासनाभावे' जातोऽपि ब्रह्मसाक्षात्कारोऽसम्भावनाविपरीतभावनादो- षाभ्यां परोक्षकल्प इति" विवरणादावुक्तम् । उक्तदोषाहिताप्रामाण्य- संशयविषयत्वेनानिश्चयरूपत्वान्नाविद्या निवर्तक इति तदर्थः ॥ 1 निदिध्यासनभावे - ख.