पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिकूलतर्कनिराकरणम् 4 दृष्टस्य तदभाववच्छ्रवणादिनियमापूर्वस्य श्रवणादिसाध्यसाक्षा- ●कारान्यफलाभावेऽपि तेनैव फलवत्वोपपत्तेः, ' सर्वापेक्षा च यज्ञा- दिश्रुतेरश्वव' दिति न्यायात्, 'सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते' इति स्मृते । अत्र सर्वाखिलपदाभ्यां कर्मशब्द- वाच्यापूर्वमात्रस्य ज्ञाने समाप्तिर्दर्शिता; मोक्षस्याविद्यानिवृत्ति- रूपस्य ज्ञानातिरिक्तांसाध्यत्वनियमाच्च । ज्ञाने त्वसंभावनादि- निवृत्त्या प्रतिबन्धकदुरितनिवृत्त्या च दृष्टादृष्टांशोपयोगः । सामा- न्य पुरस्कारेण च प्रसक्तस्य साधनान्तरस्य निवृत्तिः सर्वत्र निय- परिच्छेदः] 197 र्जनाङ्गमि " ति । यत्तु – हिरण्यधारणा दिविधिरपूर्व वेधिरेव ; सत्यपि हिरण्यधारणादौ भ्रातृव्यस्य दुर्वर्णतानुत्पत्तेः, दूरस्थभ्रातृव्ये तदनुत्पत्ते- श्वति – तनुच्छम्; तद्धारणादेरनिष्टसाधनत्वधीद्वेषादिद्वारैव भ्रातृव्ये दुर्बर्णतोत्पादकत्वेन तादृशसहकारिसत्वे दुःखविशेषरूपदुर्वर्णतानुत्पत्ते रभावात्, सुवर्णतारूपफलांशेऽपूर्वविधित्वस्य शंकितुमशक्यत्वाच || - , सर्वापेक्षेति । मुक्तौ तत्वसाक्षात्कारान्यस्य नापेक्षा; तस्वसाक्षा- त्कारे सर्वधर्मजन्यादृष्टापेक्षा, “विविदिषन्ति यज्ञेनेत्यादिश्रुतेः, कषाये कर्मभिः पक्के ततो ज्ञानं प्रवर्तत " इत्यादिस्मृतेश्च । यथाश्रो स्थ चालनादौ विनियुज्यते योग्यत्वान्न तु लाङ्गलाकर्षणादावयोग्यत्वात्, तथा तत्वसाक्षात्कारे कर्माणि न तु मोक्षे इति सूत्रार्थ । ज्ञाने समाप्तिः । ज्ञानसाध्याजनकत्वे सति ज्ञानजनकत्वम् । दृष्टादृष्टेति । दृष्टस्य श्रवणादेरसंभावनादिनिवृत्तावदृष्टस्य श्रवणादिनियमादृष्टस्य ज्ञान- प्रतिबन्धकदुरितनिवृत्तावुपयोग इत्यर्थः । सामान्यपुरस्कारेणेति । नियमविध्यभावे हि सामान्यधर्मावच्छिन्नं प्रत्येव लौकिकसाधनं प्राप्तम् ; लौकिकप्रमाणस्य यागीय व्रीहिवैतुप्यमात्रगतविशेषावच्छिन्नं प्रति सा- धनत्वाग्राहकत्वात् । तथा च तादृशलौकिकसाघनान्तरनिवृत्तिरेव विधि-