पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] प्रतिकूलतर्कानिराकरणम् 201 च ईश्वरस्येक्षापूर्वक कर्तृत्वोक्तिः, 'लोकवत्तु लीलाकैवल्य' मिति सूत्रे 'आप्तकामस्य का स्पृहे' त्यादिश्रुतौ च प्रयोजनाभावेऽपि लीलया सृष्टधाधुक्तिः, 'वैषम्यनैर्घृण्ये न सापेक्षत्वा' दिति सूत्रे 'पुण्येन पुण्यं लोकं नयती' त्यादिश्रुतौ च कर्मसापेक्षत्वेना- वैषम्योक्तिः, 'तेजोऽतस्तथा ह्याहे ' तिसूत्रे 'वायोरग्नि' रित्यादि- श्रुतौ च तेजआदेर्वाग्वादिजन्यत्वोक्तिः, 'विपर्ययेण तु क्रमोऽ- त उपपद्यते चेति' सूत्रे 'पृथिव्याप्सु प्रलीयत' इत्यादि स्मृतौ च पृथिव्यादीनामबादौ प्रलयोक्तिरित्याद्ययुक्तं स्यात् ; न हि कल्पिते तत्ताद्वरोधशङ्का तभिराकरणं च युक्तमिति – चेन; भूतानि जायन्ते' इत्यादिवाक्यम ; न प्रधानबोधकम् ; यतोऽशब्दम्, प्रधानबोध कशब्दशून्यम् | उक्तेऽर्थे हेतुमाह - ईक्षतेरिति । तदैक्षतेती- क्षषातुसमभिव्याहारविशेषादिति सूत्रशब्दार्थः । लोकवदिति । तु- शब्दात्प्रयोजनाभावे स्रष्टृत्वानुपपत्तिरूपपूर्वपक्षव्यवच्छेदः । यथा लोके प्रयोजनमप्रतिसन्धायापि राजादीनां लीलारूपा प्राणिमात्रस्य निश्वासादि- रूपा वा चेष्टा दृश्यते, तथा जगत्सृष्टिरीशस्येत्यर्थः । वैषम्येति । कस्यचिदुत्तमं, कस्यचिन्मध्यमं, कस्यचिदघममैश्वर्यं विदधातीति वैषम्यम्, दुःखं संहारं च जनयतीति नैर्घृण्यं च स्यादीशस्येति चेन्न? पुण्यापुण्ये सहकारिणी अपेक्ष्य तथा करणादित्यर्थः । तेजोऽत इति । अतो बायोरेव तेजो जायते, हि यस्माद्वायोरमिरिति श्रुतिस्तथा आह । विपर्ययेणेति । अतः पूर्वोत्तात्सृष्टिक्रमाद्विपर्ययेण विपरीततयैव लयस्य क्रमः । दृश्यते हि लोके घटादेर्मुदादौ लयः तस्मात्कार्यस्य कारणे लय इत्यर्थः । तत्तद्विरोधशङ्केति । तत्तद्विरोधघटितपूर्वपक्षेत्यर्थः । ब्रह्मणो लक्षणासंभवो विरुद्ध इति जन्मादिसूत्रे पूर्वपक्षो न युक्तः ; लक्षणस्य कल्पितत्वेन तदसम्भवस्याविरुद्धत्वात् । (एवमीक्षतिसूत्रे