पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
]

प्रतिकूलतर्कार्नराकरणम् 205 परमसिद्धान्तदशायां न शङ्का न चोत्तरम्; मायाविन इवेश्वरस्य स्वप्रतिबिम्बभूतजीवभ्रमायतृत्वेन सर्वविरोधनिरासोपपत्तेः। नन्वी- इत्यादि शारीरकसंक्षेपादौ विवेचितः । तदनन्यत्वमित्यादि । तस्य ब्रह्मणोऽनन्यत्वं नास्त्यन्यत्स्वभिनं यत्र तत्वं “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमि " त्यादि श्रुतिभ्यः । आदिना दृग्दृश्य संबन्धानुपपत्यादिप्रपञ्चसत्यता खण्डनयुक्तिभ्यः । स्वप्रतिबिम्बे- त्यादि । यतो जीवः स्वप्रतिबिम्ब मतस्तद्धमयितृत्वमीशस्येत्यर्थः । विरो- धनिरासेति । कल्पितसृष्टौ न वैषम्यादि ; जीवानामीशाधीन- सुखाद्युत्कर्षापकर्षभ्रमेण तदसंभवात् । नहि मायाविनः स्वमायानिर्मिते- नोत्कृष्टापकृष्ट मनुष्यादियुक्तनगरेण वैषम्यादिकं रागद्वेषादिरूपं संभव- . तीति । विवर्तवादालम्बने वैषम्यादिकमीशे विरुद्धमिति विरोधशङ्का न सम्भवतीति भावः । मायाविन इवेति । यथा मायाविनः उत्कर्षापकर्ष- विशिष्टेन्द्रजालादेर्निर्मातृत्वे संहर्तृत्वे वा न वैषम्यनैर्घृण्ये तथेशस्याप्युत्कृ ष्टापकृष्टभ्रमघटित सृष्टिसंहारयोर्न ते इत्यर्थः । आन्तानां जीवानां भ्रमयितुरीशस्य च मिथ्यास्वं ज्ञापार्यतुमाह - स्वप्रतिबिम्बेति । तथा चाबिद्याप्रयुक्त बिम्बप्रतिबिम्बभावयारेशिजवियोमथ्यात्वात्सुतरां न बिरो- घशङ्का | न हि स्वप्ने कस्य चित्कुत्र चित्पुरुषे वैषम्यादि यहश्यते तत्र विरोधः प्रबोधकाले शङ्कयते इति भावः । विरोधनिरासेति । वैष म्यादिप्रयुक्त विशेषशङ्काविरहेत्यर्थः । उक्तविरहे भ्रमयितृत्वेनेति तृती- यार्थस्य ज्ञाप्यत्वस्यान्वयः । यत्तु परिणामवादाभ्युपगमेन शङ्कापरिहारौ न युक्तौ ; वस्तुगत्या त्वत्सिद्धान्ते तद्वादानभ्युपगमादिति, तन्न; परिणामवादस्यानादिभ्रान्तिसिद्धत्वेन शिष्यबुद्धयारूढत्वेन प्रथमं तद्वाद- माश्रित्यैव समाधानौचित्यादन्यथा शिष्यव्याकुलतापत्तेः । तद्वादाभ्युप- गमेनापि सभाधानसम्भषे तदनुक्तौ न्यूनतापत्तेश्च । अत्र भ्रामयितृत्वेति ★