पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

206 सभ्याख्यायामद्वतसिद्धौ [प्रथमः श्वरस्यापि सपरिकरस्य जीवेनाध्यस्तत्वात्कथं भ्रमयितृत्वम्, न अविद्योपहितचित एवानादेरीश्वरत्वेनान्तःकरणोपहितजीवकल्पि- तत्वायोगात्, जीवकल्पितत्वपक्षेऽपि तादृग्धर्मविशिष्टतयैव कल्प- परग्रन्थे प्रयुक्तं तदसाध्विति ज्ञापयितुमाचार्यैर्ब्रमयितृत्वेत्युक्तम् । न च- “मितां ह्रस्व ” इति सूत्रे “ वा चित्तविराग " इत्यतो वेत्यनुवृत्तेस्तदपि " साध्विति – वाच्यम्; लोके तथा प्रयोगाभावात् । संक्रामयतीत्यादिकं - क्रम एव स्वार्थिकतद्धितान्तत्वेन क्रामस्तस्मान्नान्नो णिजन्तादुपपद्यते । भ्रामयन् सर्वभूतानीत्यादावपि तथैव छान्दसाद्वोपपत्तिः । उन्नाम- यतीत्या दावपि नामणिजन्तत्वेनोपपत्तिः । अत एव “केचिदत्र वेत्यनु- बर्तयन्ति, सा च व्यवस्थितविभाषा, तेनान्यत्र 'सङ्क्रामयेत्यादि सिद्ध- मिति”. काशिकावाक्ये केचिदित्यस्वारस्यं सूचितम् । सामयेत्यादा- वेव व्यवस्थितविभाषाया दीर्घत्वमिति चोक्तम् । जीवेनेति | मनोऽ- बच्छिन्नेनेत्यर्थः । मनोध्यासपूर्वमीश्वरो न जीवकल्पितः ; तत्कल्पि- तत्वस्य तदीयाधिष्ठानधीसाध्यत्वात् तादृशषियश्च देहेन्द्रियादिसाध्य- त्वात्, मनोध्यासोत्तरमपि न स तत्कलितः ; मनोभ्रमस्यापीश्वरा- धीनत्वादित्यमिमानः । वस्तुतस्तु - भ्रान्तिमात्रे देहेन्द्रियाद्यपेक्षाविरह- स्योक्तत्वात्, नित्यपरोक्षस्येशस्य संस्कारादेरिव जीवीयाधिष्ठानज्ञाने- नोत्पत्तिसम्भवात्, स्वेतरसर्वभ्रमे ईशस्य हेतुत्वसम्भवात्, मनोध्यास पूर्वमीशस्य कल्पनं सम्भवत्येव, तथापि जन्यभ्रममात्रस्येशाधीनत्वं सका- रणम् । कारणं तु “ ध्येयं नारायणात्सर्वमत सर्व प्रवर्तते । मयाध्य क्षेण प्रकृतिः सूयते सचराचरमि"त्यादिश्रुतिस्मृतिसिद्धं व्यवस्थापयितुमाह- नाविद्योपहितचित इति । जीवकल्पितत्वपक्ष इति । ईश्वरादिसर्व कार्य जीवकल्पितं प्रातिभासिकमिति दृष्टिसृष्टिपक्ष इत्यर्थः । तत्तद्धर्मेति । g 1 संक्रामयतीत्या -ग. 2 भत्तः -ख. ."