पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वश्रुत्युपपत्तिः - त्वम् ; मिथ्यात्वप्रयोजकरूपाभावात् । महाभाष्योक्तन्यायोदाहर- णमपि न युक्तम् ; विषयवैषम्यात् । तथाहि शतानि सहस्रा- गीत्यत्र सर्वनामस्थानसंज्ञकशिसन्भिपातेन विहितो नुम् " ष्णान्ता षडि" ति षद्संज्ञाद्वारा "षद्भ्यो लुगि” ति शिस्वरूपसर्वनामस्था- नस्य पञ्चेत्यादाविव लुनिमित्तं न भवति ; तत्सन्निपातेनैव विहितत्वात्, तत्सद्भावनियमेनैव त्रिहितत्वादित्यर्थः । अलुप्त- निमित्तीकृत्य प्रवर्तमानो नुम्विधिर्नान्तत्वद्वारकषट् संज्ञया शिलोपेन तद्विघातस्य न निमित्तम्, तथा मिथ्यात्वधर्मिग्राहकप्रत्यक्षादिप्रामाण्य- सन्निपातं निमित्तीकृत्य प्रवर्तमाना विश्वमिथ्यात्वविधायक श्रुतिर्नोक्त- सन्निपातविघातस्य निमित्तमित्याशयेन सन्निपातेत्याधुक्तम् । तदयुक्तम् ; दृष्टान्ते शिसद्भावरूप सम्बन्धस्य निमित्तस्य विधातासम्भवेऽपि दान्तिके तात्विकप्रामाण्यसम्बन्घस्यातादृशस्य विधातसम्भवात् । व्यावहारिक- प्रामाण्य सम्बन्धस्य तादृशत्वेऽपि तदविघातादित्याभिप्रेत्याह-महाभाष्ये- त्यादि । सर्वनामस्थानसंज्ञकेति । “शि सर्वनामस्थानमि" त्यनेन विहितोक्तसंज्ञकेत्यर्थः । विहित इति । सर्वनामस्थाने इत्यनुवृत्तौ “नपुंसकस्य झलच" इत्यनेन विहित इत्यर्थः । विहितत्वादिति । न चोपदेशकाले यत् ष्णान्तं तस्यैव षट्संज्ञा' विषयते, अन्यथा येन विषस्तदन्तस्य ग्रहणमित्यनेनैवान्तलामादन्तग्रहणं व्यर्थ स्यात्, तथाच शतानीत्यादौ सा न प्रसक्तेति – वाच्यम्; अन्तग्रहणे संख्याया इत्यस्यानुवृत्तौ मानाभावाद्विप्रुषयमान इत्यादावपि पट्संज्ञास्यादन्ते गृहीते तु स्त्रीलिङ्गनिर्देशाऽन्यथानुपपत्त्या सङ्ख्यानुवृत्तिः । तथाच तत्रैवार्थापत्ते- रुपक्षयात्स्वभावनान्तत्वाक्षेपाभावात्सन्निपातेत्यादि न्यायनव स्वभावनान्त- -- 211 1 संज्ञा - ग. थ्येन विधिस्तदन्तस्येत्यन्तग्रहणांसद्धावन्तग्रहणमिति स्यात्. 3 तादृग्ग्रहणे ग. 14*