पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

224 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः व्यस्य शास्त्रगम्यस्य चिन्मात्रस्याप्राप्तत्वेनोद्देश्यत्वोयोगाच द्वितीयाभावस्योद्देश्यविशेषणत्वानुपपत्तेः, अविवक्षाहेतोरनुवाद्य- - त्वस्याप्यभावाच्चेति – चेन; स्वयमेव स्वबोधितमपि द्वितीया - भावं त्वादेव निषेधतीति स्वविरोधादेव श्रुतेस्तत्रातात्प- र्यात् । मानविरोधित्वमात्रस्य तात्पर्याभावे प्रयोजकत्वात्स्वविरो- घेऽपि न क्षतिः। नन्वेकेनैव प्रमाणेनैकस्य प्राप्तिनिषेधावनुपपनौ, न; रूपभेदेनाविरोधात् । द्वितीयाभावस्वरूपं हि शास्त्रेण प्राप्यते । दधिविधायकेनेत्यर्थः । न क्षतिः । न मान विरोधक्षतिः । तथाच वपो- त्खननादिवाक्यवदद्वैतवाक्यम्, न त्वमुख्यार्थमहा तात्पर्यकामिति भावः । अनुपपत्राविति । ग्रहणाग्रहणवाक्याभ्यामकस्य विधिनिषेधसत्वेऽपि नैकेन तत्सत्वम्, निषेधवाक्येन निषेषस्य विधिनिषेध्यस्य निषेघश्चेत्य- क्रीकारेऽपि नैकस्य तेन विधिनिषेधौ । एकस्यैकेन विधाने निषेधे च बाच्ये क्रमेण तयोरङ्गीकारे विरम्यव्यापारापत्तिः, युगपदङ्गीकारे विधेयस्य निषेधार्थमनुवादा योगोऽनुवादस्य प्राप्तिपूर्वकत्वात् । सकृदुच्चरितस्योभय- तात्पर्यासम्भवात् । आवृत्तिकल्पने वाक्यभेदापत्तिश्च । किंचैकस्य विधि- निषेधयोः स्वतन्त्रतात्पर्याभावे तयोर्वैय्यर्थ्यम् । न हि निषेधार्थमेव क्वचिर्तिकाचद्विधीयत इति दृष्टमिति भावः । रूपभेदेनेति । भूतार्थ- बादादीनां देवताविग्रहादि विधाय तद्वारा स्तुत्यादितात्पर्याङ्गीकारात् स्वतन्त्रतात्पर्यभेद एव विरम्यव्यापारादेषित्वम् । स्वतन्त्रतात्पर्याभावेऽपि प्रकृते विधिनिषेधावेकस्य न व्यर्थी; एकरूपेण विधिनिषेधस्थल एव हि तथा, तत्र हि विधेयस्यैव निषेधो निषेधार्थमेव विधानम् ; प्रकृते तु द्वितीयमात्रस्य निषेधो द्वितीयाभावमात्रस्य विधेयतेति । तद्विघानं विना- स्वण्डार्थविषय कनिषेधवाक्यार्थासिदेरुक्तत्वान्न तयोर्वैय्यर्ध्यमिति भावः ॥ 2 त्वमुख्यार्थ महा-क. ग. 3 निषेधासत्वेऽपि -ग. 1 न क्षति मान-ख.