पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

226 सव्याख्यायामद्वैतसिद्धौ हिंसात्वस्य षोडशिग्रहत्वस्य च प्राप्तिनिषेधयोरवच्छेदकत्वात्, तत्र निषेषशाखस्या सङ्कुचवृत्तित्वे प्राप्तिशास्त्रस्य सवात्मना पर्युदासस्य स्वीकारे पर्युदस्तत्वादननुष्ठेयत्वस्य विहितत्वादनुष्ठेयत्वस्य च सिद्धया विकल्पापरिहारान्न पर्युदासोऽर्थः, लक्षणायां मानाभावात्, किंतु प्रतिषेधः । तत्र यद्यपि 'नानृतं वदेत्' इत्यादावनृतवदनादेरिव षोडशि- ग्रहणादे: ऋतुवैगुण्यजनकत्वं न निषेधवाक्येनाक्षिप्यते; 'समिधो यजती' त्यादिनेव 'षोडारीनं गृह्णाती' त्यादिना विधिना तस्य ऋतु साद्गुण्यजनकत्वाक्षेपेण विरोधात्, तथापि षोडशिग्रहणाद्यभावेऽपीतराङ्गैः ऋतुसाद्गुण्यमित्येवाक्षिप्यते । ग्रहणस्य च फलभूमप्रयोजकत्वकल्पनान्न तत्र प्रवृत्त्यनुपपत्तिः । यद्यपि च , प्रमाणत्वाप्रमाणत्वपरित्यागप्रकल्पनात् । सदुज्जीवनहानाभ्यां विकल्पेष्वष्टदोषता " || श्री च्यादिप्रयोगे यवादिशास्त्रे प्रतीतप्रामाण्यत्यागः, निर्दोषत्वे प्रामाण्यबीजे सत्यप्यप्रामाण्यकल्पनम्, यवादिप्रयोगे च तच्छास्त्रे त्यक्त- स्वीकृतयोः प्रामाण्याप्रामाण्ययोः स्वीकारत्यागाविति, यवादिशास्त्रे दोषचतुष्टयम् । एवं यवादिप्रयोगे ब्रीह्यादिशास्त्रे प्रतीतप्रामाण्यत्या- गोऽप्रामाण्य कल्पनं च ब्रीहिप्रयोगे तच्छास्त्रे तयोः प्रामाण्याप्रामाण्ययोः स्वीकारत्यागावित्यष्टदोषतेत्यर्थः सथाप्यगत्या सा स्वीक्रियते । तदुक्तं वार्तिके 1 |- १ [प्रथमः एबमेकत्र चत्वारो दोषा वाक्ये प्रदर्शिताः । त एव च प्रसज्येरन् द्वितीयेऽपि प्रकल्पिते || " “एवमेषोऽष्टदोषोऽपि यद्वीहियवशास्त्रयोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते ॥” इति ॥ 1 स्त्रेत्युक्तस्वीकृतयोः-ख. ग. 2 पूर्वव्रीहिप्रयोगे-ग.