पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैत श्रुतेर्बाधोद्धारः ताद्रूप्येण परिच्छेदस्तद्विपर्ययतोऽपि च ॥ विषयाविषयौ ज्ञात्वा तेनोत्सर्गापवादयोः । बाधाबाधौ विवेक्तव्यौ न तु सामान्यदर्शनात् || अन्य एवैकदेशेन शास्त्रस्यार्थः प्रतीयते । अन्यस्तु परिपूर्णेन समस्ताङ्गोपसंहृतौ ।। इति ।। परिच्छेदः] 235 उक्तमित्युक्तम् । ताद्रूप्येणेत्यादि । येन रूपेण चोदनाबोध्यत्वं तेन रूपेण प्रमितत्वं तद्विपरीतरूपेण प्रमितत्वं न जिहासितमभावविशे- षणतया लक्षणे घटकमित्यर्थः । तथाच मानान्तरेणाप्रमितमबाधितं च यत्तद्विषयकविधिवाक्यत्वं विधिवाक्यजन्यं तज्ज्ञानं वा शास्त्रमिति फलितार्थः । धर्माधर्मचोदनानामेव लक्ष्यत्वाद्विधीति | शब्दप्रमाण- मात्रस्य लक्ष्यत्वे तु तन्न देयम् । एतदुत्तरवार्तिकेऽप्युक्तम्- 'तादूप्येण परिच्छिन्ने प्रमाणं निष्फलं परम् । विपरीतपरिच्छिन्ने नावकाशः परस्य तु' || इति ॥ - अथ घटः सन्नित्यादि विशिष्य सत्यताग्राहकं यत्प्रत्यक्षादि तदविषये मिथ्यात्वमद्वैतश्रुतिगृह्णातीत्याशयेन स्मृतिपादीयवार्तिकमाह - विषयेत्यादि । ननु विरुद्धम्योपस्थितेः पूर्वमेवाद्वैत- वाक्यं सर्वमिथ्यात्वं बोधयत्वित्याशङ्कय तथा सति नञ्पदं विहाय निषेध्यस्य कर्तव्यतां निषेधवाक्यं बोधषेदित्युत्तरं हृदि निधाय कर्त्रधि- करणवार्तिकोक्तं वृद्धवाक्यमाह - अन्य एवेत्यादि । एकदेशमात्र- पर्यालोचनान वाक्यार्थनिर्णयः अतिप्रसङ्गादिति भावः । अङ्गेति यत्सापेक्षतया वाक्यार्थनिर्णयस्तदित्यर्थः । उक्तं चोक्तवार्तिकात्प्राग्वा- र्तिके – यदि शास्त्रैकदेशालोचनेन विरुद्धार्थोपगमेन शास्त्रविरोध उद्भा- व्यते, तदा 'सुरा न पातव्या' इत्यस्याप्येकदेशेन पानं विहितं कुर्यात्, 'यावज्जीवममिहोत्रं जुहोती 'ति वाक्यमात्र पर्यालोचनेन दीक्षि- --